________________
सर्वपदम्.] शक्तिवादः।
(१२९) नापि विधेयान्वयिव्यापकतापर्यन्तमेव सर्वपदार्थः- नामाईद्वयोर्भेदान्वयबोधस्याव्युत्पन्नत्वात् ।
नाप्यभेदेन रूपवदाद्यात्मकविधेयान्वयी घटत्वादिव्यापक एव तदर्थः- तथा सति ‘सर्वे वेदाः प्रमाणम्' इत्यादौ सर्वपदस्य प्रमाणपदेनैव सामानाधिकरण्यात तत्समानलिङ्गवचनकत्वापत्तिः।
झ्याह- नापीति । परिहारहेतुमाह- तदवच्छिन्नति, उक्तरीत्या याद्देश्यतावच्छेदकव्यापकविधेययत्वं सर्वपदार्थस्तदा सर्वपदेनैव घटे रूपवत्वं लब्धमिति तदवच्छिन्ने कृपयत्त्वावच्छिन्ने नाम रूपवत्त्वविशिष्ट घटे विधेयस्य रूपवत्त्वस्यान्वयो न संभवतीति विधेयानन्वय प्रसङ्गाद् 'रूपवन्तः' इतिपदं व्यर्थमेव स्यात्, तदवच्छिन्ने तदन्वयानङ्गीकारादित्यर्थः। .. · ननु नोद्देश्यतावच्छेदकव्यापकविधेययत्त्वरूपमशेषत्वं सर्वपदार्थो येनोक्तदोषः स्यात् किं तु विधयान्वयि-विधेयविशेषणीभूतं यद् व्यापकत्वम्-उद्देश्यतःवच्छेदकव्यापकत्वं तदेवाशेषत्वं तस्य च विधेये एवान्वय इति न सर्वपदेन रूपवत्त्वं लभ्यते येन 'रूपवन्तः' इतिपदस्य वैयर्थं स्यादित्याशझ्याह- नापीति । परिहारहेतुमाह- नामार्थेति, एवं ह्युइंश्यतावच्छेदकव्यापकत्वस्य सर्वपदार्थस्य विधेये रूपे रूपयत्त्वे वाऽऽश्रायतासंबन्धेनैवान्वय: स्यात्- उद्देश्यतावच्छेदकन्यापकत्वाश्रयो रूपमिति शेषसंभवाद् आश्रयतासंवन्धश्च भेदसंबन्ध एव नामार्थस्य नामार्थे च भेदसंबन्धेनान्वयोऽव्युत्पन्न एवेति नाश्रयतासंबन्धेन सर्वपदार्थस्य रूपपदार्थेऽन्वयः संभवतीतिदोष इत्यर्थः । __ मनूक्तदोषपरिहाराय 'रूपवन्तः' इतिपदेन रूपं रूपवद्वा विधेयमस्तीति रूपवदाद्यात्मकं यद् विधेयं तादृशविधेयेऽभेदेन=अभेदसंबन्धेनान्वयी यो घटत्वादिव्यापकः स एघ तदर्थ:-सर्वपदार्थ इत्युच्यते घटत्यव्यापकस्य सर्चपदार्थस्य च रूपे रूपवति वाऽभेदेनेवान्वयः संभवतीति न भेदा. न्चयापत्तिर्दोषः, अत्र 'घटत्वव्यापकरूपवन्तो घटाः' किं वा घटत्यव्यापकरूपवदऽभिन्ना घटा:' इति शाब्दबोध इत्याशझ्याह- नापीति । परिहारहेतुमाह- तथा सतीति, तथासति सर्वपदार्थस्याभेदेन विधेगेऽन्वये स्वीकृते सति "सर्वे वेदाः प्रमाणम्' इत्यत्रापि सर्वपदार्थस्योद्देश्यता. बच्छेदकव्यापकस्याभेदेन विधेये प्रामाण्ये एवान्वयः स्यात् 'वेदत्वव्यापकप्रामाण्यवन्तो वेदाः' इति. तथा च सर्वपदस्य प्रमाणपदेनैव सामानाधिकरण्यं स्यात् तेन च सर्वपदस्य प्रमाणपदसमानलिङ्गवचनकत्वं स्यात् तेन हि 'सर्व वेदाः प्रमाणम्' इत्येवं प्रयोगः स्यात् 'सर्वे वेदाः प्रमाणम्' इतिप्रयोगो न स्याद् न चैतदिष्टमित्यर्थः । उक्तं च
“विशेष्यस्यैध यलिङ्ग विभक्तिवचने च ये। तानि सर्वाणि योन्यानि विशेषणपदेष्वपि ॥” इति ।