________________
सादर्शः
(१२८)
[ विशेषकाण्डेघटत्वत्वायनुपस्थितिदशायामपि ' सर्वे घटाः' इत्यादिवाक्यादन्वयबोधस्यानुभविकतया व्याप्यत्वेनैव घटत्वादेः सर्वपदार्थत्वस्य स्वीकरणीयतया तज्जन्यव्या-- प्तिषोधस्य निर्धामतावच्छेदकतया विपरीतज्ञानाऽविरोधित्वेनाकिंचित्करतापाताच्च । ___ नापि तत्तदुद्देश्यतावच्छेदकव्यापकतत्तद्विधेयवत्त्वम्- तदवच्छिन्ने विधेयानन्व
यप्रसङ्गात् । इत्यत्र विशेषणांशेऽधिकाबगाहिशाब्दबोधस्यानुभवसिद्धत्वेपि “सर्वे घटाः' इत्यादावनुभवसिद्धत्वाभावादित्यर्थः ।
दोषान्तरमाह- घटत्वत्वेति, ' सर्वे घटा रूपवन्तः । इत्यत्रोक्ताशेषत्वपरिष्कारेण रूपशून्यावृत्तित्वाद् घटत्वे रूपव्याप्यत्वं प्राप्तं तदेव रूपव्याप्यत्वं हि सर्वपदार्थ इति लब्धं घटत्वं च न स्वरूपेण सर्वपदार्थः संभवति किं तु व्याप्यत्वेन रूपादिलक्षणविधेयव्याप्यत्वेनैत्र रूपेण. तादृशविधयव्याप्यत्वस्य च घटत्वे एवाभेदेनान्वयः कर्तव्यस्तत्र घटत्वस्य धटत्वत्वाद्यनुपस्थितिदशायाम्-घटत्वत्वेनानुपस्थितिदशायामपि नाम स्वरूपेणोपस्थितिदशायामपि 'सर्वे घटा रूपवन्तः' इत्यादि. वाक्यात् 'रूपव्याप्यघटत्ववन्तो घटा: ' इत्याद्यन्वयबोधः-शाब्दबोध आनुभविकः-इष्ट एव स च न संभवति ' पदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रत्यन्वयितावच्छेदकरूपेणोपस्थितिः कारणम् ' इतिनियमाद् अन्वयितावच्छेदकरूपेण घटत्वत्वेन घटत्वोपस्थितौ सत्यामेव घटत्वे विधेयव्याप्यत्वस्यान्वयः संभवति. न चात्र घटत्वस्य घटत्वत्वेन रूपेणोपस्थितिरस्तीति घटत्वे विधेयव्याप्यत्वान्वयाऽसंभवः प्रथमं दोषः, किं च ' सर्वे घटा रूपवन्तः । इत्यादिवाक्यजन्यबोधस्य ' घटत्वं रूपामाववद्वृत्ति ' किंवा 'घटत्वं रूप्यवाप्यं न' इत्याकारकं यद् विपरीतज्ञानं तद्विरोधः तत्प्रतिबन्ध एव फलं प्रतिबध्यप्रतिबन्धकमावश्चावच्छेदकनिष्ठप्रत्यासत्त्या भवति घटत्यानुपस्थितिदशायां च ' सर्वे घटाः । इत्यादिवाक्यजन्यो व्याप्तिबोधो निर्धर्मितावच्छेदकक एवं जायते निर्मितावच्छेदककबोधश्च विपरीतज्ञानविरोधी न मवतोति 'सर्वे घटाः ' इत्यादिवाक्यजन्यत्रोधोऽकिंचित्कर; निष्फल एवोक्तपरिष्कारपक्षे स्यादित्यर्थः। धर्मितावच्छेदकमत्र घटत्वत्वं बोध्यं घटत्वे एव सर्वपदार्थविधेयव्याप्तेरन्वयस्वीकारादिति ।
ननु तत्तदू यदुद्देश्यतावच्छेदकं घटत्वादिकं तद्व्यापकं यत् तत्तद् विधेयं रूपादिकं रूपवत्त्वादिकं वा तादृशविधेयत्ववमेवाऽशेषत्वं तदेव सर्वपदार्थः 'सर्वे घटा रूपवन्तः' इत्यत्र रूपं घटत्यव्यापकमस्तीति उद्देश्यतावच्छेदकीभूतघटत्वव्यापकरूपवत्त्वं घटेषु लभ्यते. अत्र च सर्वपदार्थीभूताशेषत्वं तादृशविधेयवत्वमेव तस्य च घटेनैवाभेदान्वयो घटस्य च धरवेनान्वयितावच्छेदकरूपेणोपस्थितिरस्त्येवेति न शाब्दबोधस्य प्रदर्शितनिष्फलत्वापत्तिर्दोषः, घटत्वेन चोक्तसर्वपदार्थस्यान्वयाभावान्न घटत्वस्य घटत्वत्वेन रूपेणोपस्थित्यपेक्षा, 'सर्व प्रमेयम्' इत्यादिकेवलान्वयिविधेयस्थलेप्युद्देश्यतावच्छेदकच्यापकीभूतं यद् विधेयं प्रमेयत्वं तद्वत्त्वं संभवत्येवेति नोक्तदोषापत्तिः 'सर्वे घटा जातिमन्तः' इत्यत्राप्युक्तदोषो नास्ति- विधेयशून्यत्वस्य लाभापेक्षाभावादित्याश