________________
( १३२)
सादर्श:
[विशेषकाण्डेविच्छदकसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वस्य तत्तदुद्देश्यतावच्छेदके सर्वत्र बाधितत्वेन तत्प्रतीते१रुपगमत्वात् ।
सामान्यतः प्रतियोगिवृत्त्यन्यत्वस्य वृत्तिमदवृत्तित्वात् । स्वप्रतियोगिवृत्तयो खमनेकत्वमिति न वक्ष्यामो येन — सर्व गगनम् ' इत्यादिप्रयोग उक्तरीत्या स्यात् किं तद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगितावच्छेदकं यदुद्देश्यतावच्छेदकं तादृशोदेश्यतावच्छेदकसमा. नाधिकरणभेदप्रतियोगित्वमेवानेकत्वं तदेव सर्वपदार्थः अर्थाद् यत् प्रतियोगितावच्छेदकं स्यात् तदेवोद्देश्यतावच्छेदकमपि स्यादित्युद्देश्यतावच्छेदकप्रतियोगितावच्छेदकयोस्क्यमिष्टमस्तीति वक्ष्यामस्तथा च गगने यो द्वित्वावच्छिन्नप्रतियोगिताको घटगगनोमयभेदस्त प्रतियोगितावच्छेदकं तु द्वित्वमेवास्ति न तु गगनत्वम् सर्वं गगनम् ' इत्यत्रोद्देश्यतावच्छेदकं च केवलं गगनत्वमेव न तु द्वित्वमित्युद्देश्यतावच्छेदकप्रतियोगितावच्छेदकयोरैक्यासंभवादन भेदपदेन द्वित्वावच्छिन्नप्रतियोगिताकभेदो न ग्रहीतुं शक्यते येन ‘सर्व गगनम् ' इत्यादिप्रयोगापत्तिः स्यादित्याशङ्कयाह-- तत्तदुद्देश्यतावच्छेदकेति, तदुद्देश्यतावच्छेदके तदुद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वं सर्वत्र बाधितमेवाऽसंभवादिति तत्प्रतीतिरेव न संभवतीत्यन्वयः । उद्देश्यतावच्छेदकप्रतियोगितावच्छेदकयोरैक्यं यत् तवेष्टं तन्न संभवतीतिभावः । तथा च ' सर्वे घटा रूपवन्तः । इत्यत्रोदेश्यतावच्छेदकं तु घटत्वमेव भेदप्रतियोगितावच्छेदकं च तद्व्यक्तित्वमेव न तु घटत्वं घटत्वावच्छिन्नप्रतियोगिताकभेदस्य घटे बाधादिति प्रतियोगितावच्छेदकोद्देश्यतावच्छेदकयोरैक्याभायादुक्तसर्वपदार्थीभूतानेकत्वस्य सर्वपदेन क्वचिदपि प्रतीतिर्न संभवतीत्यर्थः ।
ननु नोक्तरीत्यापि वक्ष्यामो येन प्रदर्शितासंभवदोषः स्यात् किं तद्देश्यत बच्छेदकसमानाधिकरणप्रतियोगिवृत्तिभेदान्यभेदप्रतियोगित्वमनेकत्वं सर्वपदार्थः अर्थादुद्देश्यतावच्छेदकसमानाधिकरणो यः प्रतियोगिवृत्तिभेदान्यो भेदस्तादृशभेदप्रतियोगित्वमनेकत्वम् . नामोद्देश्यतावच्छेदकसमानाधिकरणभेदपदेन प्रतियोग्यऽवृत्तिभेदो ग्राह्य इति वक्ष्यामस्तथा च ' सर्व गगनम् ' इतिप्रयोगापत्तिप्रदर्शनाय यो द्वित्वावच्छिन्न प्रतियोगिताको भेदो गृहीतः स तु प्रतियोगिनि गगने वर्तत एव गगनस्यापि च तादृशभेदप्रतियोगित्वादिति द्वित्वावच्छिन्नप्रतियोगिताको भेदो भेदपदेन न प्रायः किं तु तदन्यस्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताक एव भेदो ग्राह्यस्तादृशभेदप्रतियोगित्वं तु गगने नास्त्येव गगनव्यक्तरेकत्वादिति ' सर्व गगनम् ' इत्यादिप्रयोगापत्ति स्ति, घटे तु तद्व्यक्तित्वावच्छिन्न प्रतियोगिताको भेदः संभवति स च भेदः प्रतियोगिवृत्तिरपि न भवति-अ. न्यघटव्यक्तिभेदस्यान्यघटव्यक्तावेव सत्त्वादिति तादृशभेदप्रतियोगित्वरूपानेकत्वस्य घटेषु सत्वात् 'सर्वे घटा रूपवन्तः ' इत्यादिप्रयोगस्यानुपपत्तिरपि नास्तीत्याशङ्कयाह- सामान्यत इति, यदि ग्राह्यभेदे सामान्यत एवं प्रतियोगिवृत्त्यन्यत्वम् प्रतियोग्य वृत्तित्वमुच्यते तदा तस्य संभव एवं नास्ति-वृचिमदऽत्तित्वात ये पदार्थाः कचिद् वर्तन्ते तेषु वृत्तिमपदार्थेषु प्रतियोग्यऽवृत्तित्वस्याअतिमात्-मसंभवादेव पत्र ते वर्तन्ते तस्यापि स्वाभावप्रतियोगित्वादिति 'सर्वेषु घटेषु' इत्यत्र