________________
युष्मदस्मत्पदे ]
शक्तिवादः ।
(१२५) न्धेन यथासंभवं धात्वर्थ धात्वर्थतावच्छेदकज्ञाने च विशेषणमित्येवोपगन्तव्यं तथा च सर्वत्रैव युष्मदस्मद्घटिताऽवान्तरवाक्यस्थले इतिपदं तत्परमेव, ताशवाक्येन वा 'गवित्ययमाह ' इत्यादौ गवादिपवत् स्वरूपमेवेतिशब्देन परामर्शार्थमुपस्थाप्यते न तु युष्मदस्मच्छब्दार्थघटितो वाक्यार्थ इति संबोध्योच्चारणकों
ख युष्मदस्मदोः शक्तिरिति । दृशमितिपदेन परामृश्यमानं मूर्खचैत्रादेर्यत स्त्रात्मनि पाण्डित्यप्रकारकं ज्ञानं तद् यथासंभवम् 'अयमहं पण्डित इति जानाति ' इत्यादी ज्ञाधात्वर्थे ज्ञानेऽभेदसंबन्धेन विशेषणं भवति, अत्र जानातीतिज्ञाधात्वर्थोपि ज्ञानमेव इतिपदेन परामृश्यमानमपि ज्ञानमेव तयोश्च ज्ञानयोरभेद एव- इतिपदेन परामृष्टोक्तज्ञानस्यैव जानातीतिपदेन प्रतिपादनातु तथा चात्र 'पण्डितसमवेतस्वात्मविषयकपण्डितत्वप्रकारकज्ञानसदृशज्ञानाश्रयो मूर्खचत्रः इति शाब्दबोधः, 'बन्ध्यासुतो मया दृष्ट इति चैत्र उवाच ' इत्यादिबाधितवाक्यार्थस्थले चेतिपदं बन्ध्यासुतकर्मकदर्शनविशेष्यकैतद्वाक्यार्थ. परामर्शकं न भवति किं त्वऽवन्ध्यासुतद्रष्टुर्यादृशमबन्ध्यासुतकर्मकदर्शनविशेष्यकं ज्ञानं जायते तादृशज्ञानसमानाकार यच्चैत्रस्य बन्ध्यासुतकर्मकदर्शनविषयकं ज्ञानं तत्परामर्शक तादृशश्चेतिपदार्थः= उक्तज्ञानसमानाकारकज्ञानमत्र धात्वर्थतावच्छेदकीभूतज्ञानेऽभेदसंबन्धेन विशेषणं भवति यतोत्र ज्ञानानुकूलोक्तिरेव धात्वर्थस्तादशधात्वर्थतावच्छेदकं च ज्ञानमेव इतिपदेन परामृश्यमानमपि ज्ञानमेव तथा चात्र 'भबन्ध्यासुतद्रष्टज्ञानसदृशबन्ध्यासुतकर्मकदर्शनविषयकज्ञानानुकूलोक्तिव्यापाराश्रयश्चैत्रः । इतिशाब्दबोधः । उपसंहरति- तथा चेति, बाधितवाक्यार्थस्थले इतिपदमुक्तज्ञानसमानज्ञानपरमऽबाधितशक्यार्थस्थले च तादृशवाक्यार्थपरामर्शकमिति वैषम्यस्याऽयुक्तत्वात् सर्व. त्रैव 'अयमहं पण्डित इति जानाति"त्वमयं पण्डित इतिजानासि' 'मया त्वयि हते इत्यादि देव्युवाच' इत्यादिस्थले यत्र युष्मदस्मत्पदघटितवाक्यमवान्तरवाक्यं भवति तत्र सर्वत्रैवेतिपदं तत्परम् । उक्तज्ञानसदृशज्ञानपरमेव स्वीकार्य तादृशज्ञानं तु बाधितवाक्यार्थस्थलेप्यबाधितमेव बाधितषाक्यार्थस्थले ताशज्ञान विषयस्यैव बाधितत्वस्वीकारात् । " मया त्वयि " इत्यत्र च एतद्वाक्यजन्यज्ञानसदृशमहिषासुरनिष्ठज्ञानानुकूलव्यापारवती देवी । इत्येवं शाब्दबोधः । मभूक्तरीत्येतिपदस्योक्तज्ञानसदृशज्ञानपरत्वेपि तादृशज्ञानस्यापि प्रदर्शितस्थलेषु वाक्यान्तरस्थक्रियाकर्मत्वं न संभवतीति प्रदर्शितानुपपत्तिस्तदवस्थैवेत्याशङ्कय पक्षान्तरमाह- तादृशवाक्येन वेति, 'गौः । इत्यस्य स्थाने केनचिद्मादृशमूर्खण 'गो' इत्युक्ते तदशुद्धिप्रदर्शनाय पार्श्वस्थविदुषा 'गविस्यय. माह ' इत्युक्ते यथा तादशवाक्यस्थगोपदेन न गोपदार्थ उपस्थाप्यते किं तु गोपदमेयोचारितमिति प्रसिद्ध तथा प्रकृतेपि तादृशवाक्येन बाधितार्थकवाक्येन स्वरूपमेव स्वस्वरूपमेष ' अयमहं पण्डितः । इत्यादिवाक्यस्वरूपमेवेतिशब्दकरणकपरामर्शार्थमुपस्थाप्यते न तु युष्मदस्मदर्पघटितवाक्यार्थ:-- तस्य बाधितत्वादिति तत्रेतिपदं युष्मदस्मत्पदघटितवाक्यमात्रपरामर्शक भवति इतिपदपरामृष्टतादृशवाक्यस्य तु वाक्यान्तरस्थक्रियाकर्मत्वं नानुपपन्नमिति पूर्वोक्तरीत्या स्वसंबोध्ये