SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ (१२४) सादर्शः [ विशेषकाण्डेन चाऽऽहार्यवाक्यार्थज्ञानादेव विनापि विशिष्टवाक्यार्थबुद्धि विशेषणप्रकारकत्वविशेष्यविशेष्यकत्वाभ्यां विशिष्टज्ञानज्ञानादेव वा विशेषदर्शी तथा प्रयुङ्क्ते इति वाच्यम्, एवमपि विशेषदर्शिनो भ्रान्तिज्ञपुरुषीयतयाविधवाक्याच्छाब्दबोधानुप-पत्तेर्वज्रलेपत्वात् . तस्मात् तत्रेतिपदं न तद्वाक्यप्रतिपाद्यतावच्छेदकीभूततत्तद्धर्मावच्छिन्नपरमऽपि तु तत्तद्वाक्यजन्यज्ञानसमानाकारकपरं तादृशेश्चेतिपदार्थोऽभेदसंबजपापुष्पं जानाति वह्नि च जानाति' इत्यभिप्रायेणैत्र 'लोहितं वह्नि जानाति' इतिप्रयुज्यते तत्र लोहितप्रकारकत्रलिविशेष्यका या विशिष्टवाक्यार्थबुद्धिस्तां विनापि नाम वहिलोहितयोर्विशेष्यविशेषगभावेऽभिप्रायाभावेपि ज्ञाने एवं विशेषगप्रकारकत्वम् लोहितप्रकारकत्वं विशेष्यविशेष्यकत्वम् वह्निविशेष्यकत्वं च भवतीति विशेषगप्रकारकत्व विशेष्यविशेष्यकत्वाभ्यां विशिष्ट यद् लोहितप्रकारकवह्निविशेष्यकज्ञानं तादृशविशिष्टज्ञानस्य ज्ञानात ज्ञाने एच लोहितं प्रकारतया भासते न तु वहावपीत्यादिज्ञानादेव किं वाऽऽहार्यवाक्यार्थज्ञानात्वहिनलोहित इत्याकारकबाधकालिकज्ञानादेव नाम बाधितवाक्यार्थज्ञानादेव 'वहिन लोहितः' इत्याकारकविशेषदर्शी तथा='अयं वह्नि लोहितं जानाति' इत्येवं प्रयुङ्क्ते तथा प्रकृतेपि 'नायं पण्डितः' इत्याकारकविशेषदर्शी : आहार्यवाक्यार्थज्ञानात-पाण्डित्यलक्षणबाधितवाक्यार्थज्ञानादेव किं वा चैत्रमुद्रिश्य 'अयमहं पण्डित इति जानाति' इतिप्रयोगस्थले पाण्डित्यप्रकारकचत्र विशेष्यका या विशिष्टवाक्यार्थबुद्धिस्तां विनापि ज्ञाने एव यद् विशेषणप्रकारकत्वम् पाण्डित्यप्रकारकत्वं विशेष्यविशेष्यकत्वम् चैत्रविशेष्यकत्वं ताभ्यां विशिष्ट यत् पाण्डित्यप्रकारक चैत्रविशेष्यकज्ञानं तादृशविशिष्टज्ञानस्य ज्ञानात् ज्ञाने एव पा. ण्डित्य प्रकारतया भासते न तु चैत्रेपीत्यादिज्ञानादेव तथा 'अयमहं पण्डित इति जानाति ' इत्येवं प्रयुङ्क्ते तच्च संभवत्येवेत्याशङ्कयाह- न चेति । परिहारहेतुमाह- एवमपीति, एवम्-उक्तरीत्या विशेषदर्शिकृतप्रयोगसंभवेपि भ्रान्तिज्ञपुरुषीयतथाविधवाक्यात् उक्तरीत्या विशेषदर्शिप्रयुक्तात् 'अयमहं पण्डित इति जानाति ' इत्यादिवाक्याद नायं पण्डितः' इत्याकारकविशेषदशिनः शाब्दबोधस्तु नैवोपपद्यते- विशेषदर्शिदृष्ट्या तादृशवाक्यार्थस्य बाधितत्वेन कर्मत्वासभवादित्यर्थः । - लोहितं वहिं जानाति' इत्यत्राप्युक्तरीत्या एतादृशप्रयोग एव संभवति न तु तादृशवाक्यार्थस्य कचित् कर्मवादिकमपि- बाधितत्वादित्यभिप्रायः । नन्वेव बाधितवाक्यार्थस्थले का गतिः ? इत्याशङ्कय समाधत्ते- तस्मादिति, तत्र-बाधितवाक्यार्थस्थले इतिपदं तद्वाक्यप्रतिपाद्यतावच्छेदकीभूततत्तद्धर्मावच्छिन्नपरम्-तद्वाक्यप्रतिपाद्यतावच्छेदकीभूतं यच्चैत्रत्वादिक तादृशधर्मावच्छिन्नचैत्रादिपरं नाम पाण्डित्यादिप्रकारकचैत्रादिविशेष्यकवाक्यार्थपरामर्शकं न भवति किं त्वऽबाधितवाक्यार्थस्थले तादृशवाक्येन यादशं पाण्डित्यादिप्रकारकचैत्रादिविशेष्यकज्ञानं जायते तादृशज्ञानसमानाकारकं यज्ञानं तत्परम् तत्परामर्शकं भवति नाम यादृशं यथाथैपण्डितस्य स्वात्मनि पाण्डित्यविषयकं ज्ञानं जायते नादृशमेव स्वात्मनि पाण्डित्यविषयकं ज्ञानं "मूर्खचैत्रस्याप्यस्तीति परामृश्यते तादृशश्चेतिपदार्थः विदुषः स्वात्मनि पाण्डित्यप्रकारकज्ञानस
SR No.008430
Book TitleShaktivadadarsha
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy