________________
( १२६)
सादर्श:
[विशेषकाण्डे'त्वं स्थूलः ' 'अहं स्थूल: ' 'त्वं स्वर्ग भोक्ष्यले ' ' अहं स्वर्ग भोक्ष्ये' इत्युभयत्रैव युष्मदस्मदोर्मुख्यत्वात् संबोध्योच्चारयितृशरीरतदात्मनोरेव युष्मदस्मदर्थत्वं बोध्यम् ॥
'सर्वे घटा रूपवन्तः ' इत्यादौ सर्वपदादुद्देश्यतावच्छेदकीभूतवटत्वाद्यवच्छिन्नस्याऽशेषताप्रतीतेरशेषत्वं सर्वपदार्थः ।
नन्वत्राशेषत्वं न विधेयशून्यावृत्तितदुद्देश्यतावच्छेदककत्वम्-- केवलान्वयिनी युष्मत्पदस्थोच्चारणकरि चास्मत्पदस्य शक्तिरिति सिद्धम् , संबोध्यत्यमुच्चारणकर्तृत्वं च वाक्यान्तरस्यक्रियाकर्मत्वघटितं पूर्वमेवोक्तमित्यर्थः ।
वस्तुतस्तु 'अयमहं पण्डित इति जानाति ' इत्यादिबाधितवाक्यार्थस्थले इतिपदेन परामृश्यमानस्योक्तज्ञानस्य या वाक्यस्वरूपस्य वा कर्मत्वं न संभवति येन जानातिक्रियाकर्तुरस्म पदार्थत्वं स्याद् न च तस्योचारणकर्तृत्वमप्यस्ति तस्मात् तात्पर्यज्ञानादेवाभीष्टम्य युष्मदस्मत्पदार्थत्वं ग्रहीतुं शक्यते इत्यवधेयम् ।
त्वमिति- ' त्वं स्थूलः ' ' अहं स्थूलः ' इत्यत्र युष्मदस्मत्पदं मुख्यमेव न तु लाक्षणिकम् आत्मनि च स्थूलत्वं बाधितमित्यत्र संबोध्यशरीरस्यैव युष्मदर्थत्वमुच्चारयितृशरीरस्यैव बास्मदर्थत्वं बोध्यम्-शरीरे स्थूलत्वादिसंभवात् , 'वं स्वर्ग मोक्ष्यसे' 'अहं स्वर्ग भोक्ष्ये' इत्यत्रापि युष्मदस्मत्पदं मुख्यमेव न तु लाक्षणिकं शरीरस्य च स्वर्गभोक्तृत्वं न संभवत्तीत्यत्र संबोध्यात्मन एक युष्मदर्थत्वमुच्चारयित्रात्मन एव चास्मदर्थत्वं बोध्यमित्यर्थः ।
"आवां गच्छावः वयं गच्छामः इत्यादिवाक्यवटकास्मत्पदाच्चत्रोच्चारितात चत्रमैत्रादिबोधस्यानुभवसिद्धतया मैत्रादेरुच्चारणकर्तृत्वाभावात्तादृशबोधानुपपत्तिरितिचेत् न तादृशम्थले चैत्रादिसमुदाये लक्षणास्वीकारात् " इति माधवभट्टाः ।
॥ इति युष्मदस्मत्पदे ।।
अथ
॥ सर्वपदम् ॥
सर्वपदशक्तिनिरूपणभारमते- सर्व इत्यादिना । ' सर्वे घटा रूपवन्तः' इत्यत्र घटमुद्दिश्य रूपवत्त्वं विधीयते इत्युद्देश्यो घट उद्देश्यतावच्छेदकं घटत्वं विधेयं च रूपवत्त्वम्. भत्रोद्देश्यतावच्छेदकं यद् घटत्वं तदवच्छिन्नस्य घटस्य सर्वपदसमभिव्याहारादशेषता प्रतीयते इत्यशेषत्वं सर्व . पदार्थस्तथा च ' अशेषा घटा रूपवन्तः । इति वाक्यार्थबोधः 'रूपाभाववदऽवृत्तिवटत्ववन्तो घटाः' इति यावत् , रूपशून्यः कोपि घटो नास्तीति पर्यवसितम् । ___ सर्वपदार्थीभूताशेषत्वं निर्वस्तुमुपक्रमते- नन्वित्यादिना । अत्र=' सर्वे घटा रूपवन्तः । इत्यादिस्थले । विधेयेति- विधेयं यद् रूपवत्त्वं तच्छ्न्यं यदाकाशं तदवृत्ति यत् तदुद्देश्यतावच्छेद