________________
अस्मत्पदम् .] शक्तिवादः ।
(११५) रस्थोक्तिक्रियाकर्मतया तदर्थघटितवाक्यार्थ प्रतिपादयितुमेवाऽनुवादकोऽस्मद्घटितं वाक्यं प्रयुक्ते इति न स्वातंत्र्यम् । 'मां पश्य ' इत्यादौ प्रकृतवाक्यस्थज्ञानरूपक्रियाकर्मतया स्वं प्रतिपादायतुमेवाऽस्मदः प्रयोगात् तदुच्चारणस्य स्वातन्त्र्यनिर्वाहाय वाक्यान्तरेति ।
एतेन यत्र चैत्रेणान्यदयात् 'चैत्रः सुन्दरः' इतिवाक्यादेव वाक्यार्थ प्रतीत्य 'अहं सुन्दरः' इतिप्रयुज्यते तत्र स्वसमानार्थकवाक्योच्चारणसापेक्षत्वेपि न स्वातंत्र्यक्षतिः, न वा स्वपाण्डित्याभिमानिमोनिपुरुषज्ञानपरस्य " अयम् अहं पण्डितः' इति जानाति " इत्यऽन्यदीयोच्चारणस्य स्वातन्त्र्यापत्तिः। नधीने यरम्बोचारणं तदेव स्वतन्त्रोच्चारणं विज्ञेयम् , अनुवादस्थले च ' इत्युवाच ' इतिवाक्यान्तरस्था योक्तिक्रिया नकर्मतयैव तदर्थघटितवाक्यार्थम् अम्मत्पदघटितवाक्यस्यार्थ प्रतिपादयितुमनुवादकोऽम्मत्पदवटितवाक्यं प्रयुक्ते इत्यनुवादकोच्चारण वाक्यान्तरस्थकियाकर्मतापनस्वघटितवाक्यार्थप्रत्यायनेन्छाधीनत्वान स्वतन्त्रोच्चारणं भवति येन “ मया 'वयि, इत्यत्रास्मत्पदेन अध्यादेरनुवादकस्य बोधः स्यात्, देव्युश्चारणं च वाक्यान्तरस्थक्रियाकर्मतापनस्वघटितवाक्यार्थप्रत्यायनेच्छानधीनत्वात् स्वतन्त्रोच्चारणमेवेति “ मया त्वयि " इत्यत्रोम्मत्पदेन देव्याः प्रतीतिरुपपद्यते चेत्यर्थः । “ देव्युवाच " इतिवाक्यस्थोक्तिक्रियायाम " मया त्वयि " इत्यादिवाक्यस्य योर्थस्तस्यैव कर्मत्वमस्तीतिमष्टमेव । नन्वत्र वाक्यान्तरस्थेति किमर्थमुक्तमित्याशङ्कय वाक्यान्तरस्थेतिपदस्य सार्थक्यमाह- मामिति, यदि वाक्यान्तरस्थेति नोक्तं स्यात्तदा ' मां पश्य ' इत्यत्रैतद्वाक्यस्था या पश्येतिपदप्रतिपाद्या ज्ञानरूपा क्रिया तत्कर्मतयेच स्वात्मानं प्रतिपादयितुं मामित्यस्मत्पदं प्रयुक्तमस्तीति — मां पश्य ' इत्युच्चारणस्यापि स्वतन्त्रोच्चारणत्वं न स्याद् इष्टं च स्वतन्त्रोचारणत्वमिति तन्निर्वाहाय वाक्यान्तरस्थेत्युक्तं तथा चास्मत्पदघटितद्वाक्यार्थस्यैतद्वाक्यघटकक्रियाकर्मस्वेपि वाक्यान्तरस्थक्रियाकर्मत्याभावात् ' मा पश्य । इतिवाक्योचारणस्य न स्वातन्त्र्यक्षतिरित्यर्थः । . एतत्परिष्कारस्योपयोगान्तरमाह-एतेनेति। वाक्यार्थम् स्वसौन्दर्यम् । स्वसमानेति--स्वम् 'अहं सुन्दरः ' इतिवाक्यं तत्समानार्थकवाक्यम् ' चैत्रः सुन्दरः ' इतिवाक्यं तस्य यदन्यदीयकर्तृकमुच्चारणं तत्सापेक्षत्वेपि 'अहं सुन्दरः ' इत्युच्चारणस्य स्वातन्त्र्यक्षति स्ति- वाक्यान्तरस्थक्रियाकर्मतया ' अहं सुन्दरः ' इतिवाक्यार्थस्य प्रत्यायनेच्छाभावादिस्यर्थः । अत्र चैत्रोऽन्धो वा सौन्दर्यज्ञानरहितो वा विज्ञेयः । न वेति- स्वपाण्डित्यामिमानी यो मौनी पुरुषस्तस्य यत् स्वाण्डित्यविषयकं ज्ञानं तत्प्रतिपादनपरम् ." अयम् 'अहं पण्डितः । इति जानति " इत्यन्यदीयवाक्यं तदुच्चारणस्य स्वातन्त्र्यापत्तिरपि नास्ति- अत्र ' इति जानाति ' इति यद्वाक्यान्तरं तदस्था या जानालिपदप्रतिपाद्या ज्ञानरूपा क्रिया तत्कर्मतयैव 'अहं पण्डितः' इति वाक्यार्थ प्रतिपादयितुं वक्तोक्तवाक्यमुचारयतीति न तदुच्चारणस्य स्वातन्त्र्यापत्तिस्तेन चात्राहंपदेन न वक्तुः प्रतीतिर्जायते किं तु स्वपाण्डित्याभिमानिमोनिपुरुषस्यैवेत्यर्थः, एतद्वाक्यं चान्यदीयो