________________
सादर्श:
[ विशेषकाण्डे
( ११६ )
अथैवं रीत्याऽव्यवहितोक्तस्थलेऽहं पदेनोच्चारयितृपुरुषविषयकप्रतीतिवारणेप्यडभिमानिनस्तेन प्रत्ययो दुरुपपाद एव तस्योच्चारणाभावेनाऽस्मत्पदान्वाच्यत्वादितिचेत् ?, सत्यम् - स्वतन्त्रोच्चारयितुः सर्वत्रास्मदर्थत्वे स्यादेवेयमनुपपत्तिः. तदेव न - स्वतन्त्रोच्चारितास्मत्पदस्यैव तद्वाचकत्वात् । निरुक्तस्वतन्त्रोचारणराहतस्य चास्मदः स्वघटितवाक्यार्थ कर्म कवाक्यान्तरस्थक्रिया कर्तर्येव. शक्तिः, एवं च " मया त्वयि हतेऽत्रैव " इत्यादौ तादृशक्रिया" देव्युवाच " इतिवाक्यान्तरस्थोक्तिक्रियैव तत्कर्तृत्वं देव्या इति पूर्वोक्तभ्रमं विनैव तत्प्रतीतिरुपपादयितुं शक्यते ।
चारितमेव नोक्तस्त्रपाण्डित्याभिमन्युच्चारित नितिसुचनाय मौनीत्युक्तम् । अन्यदीयस्त्रार्थतात्पfararooraatatचारणं स्वतन्त्रोचारणम् " इत्युक्त परिष्कारपक्षेत्वत्र वक्तुरुच्चारणमन्यदीयस्वार्थ तात्पर्य कोच्चारणानधीनत्वात् स्वतन्त्रोच्चारणं स्यात् तेन चात्राहंपदेन वक्तुरेव प्रतीतिरापयेत स्त्रपाण्डित्याभिमानि पुरुषस्य चेष्टा प्रतीतिर्न स्यादिति दोषोऽनुसंधेयः ।
नम्बऽञ्यवहितोक्तस्थले=" अयम् ' अहं पण्डितः' इति जानाति " इत्यत्रैबंरीत्या वक्तुरुवारणस्य स्वातन्त्र्यनिरासेनाऽहंपदेनोच्चारयितृपुरुषविषयकप्रतीतिवारणे कृतेपि स्वपाण्डित्या भिमानिस्तेन = अहंपदेन प्रत्ययः = प्रतीतिर्दुरुपपादैव - यतो वाक्यान्तरस्थक्रियेत्याद्युक्त परिष्कारेणाप्युस्वतन्त्रोचारणकर्तुरेवास्मत्पदार्थत्वं प्रतिपादितमत्र चैतद्वाक्योचारणं न स्वपाण्डियाभिमानिपुरुकर्तृकमित्याशङ्कते - अथेति । तस्य == स्वपाण्डित्याभिमानिपुरुषस्य षष्ठ्यर्थः कर्तृत्वं तथा च स्वपाण्डित्याभिमानिपुरुषकर्तकोञ्चारणामायेनेत्यर्थः । उक्तानुपपत्ति स्वीकुर्वन्नाह - सत्यमिति, यदि सर्वत्र स्वतन्त्रोचारयितुरेवाऽस्मत्पदार्थत्वं स्यात्सदेयम् = उक्तस्थेऽहंपदेन स्वपाण्डित्याभिमानिपुरुषविषयकप्रतीत्यनुपपत्तिः स्यादेव तदेव = स्वतन्त्रोच्चारयितुरेवास्मदर्थत्वमिति नियमो नास्येक यतः स्वतन्त्रोच्चारितस्य = उक्तस्त्रतन्त्रोचारणविषयस्यैवास्मत्पदस्य तद्वाचकत्वम् स्वतन्त्रोचारयितृवा
त्वं स्वीक्रियते न खऽस्मत्पदमात्रस्य तथा च निरुक्तस्वतन्त्रोच्चारणरहितस्य= निरुक्तस्वतन्त्रोचारणाविषयस्य त्वऽस्मदः - अस्मत्पदस्य स्वघटितम् अस्मत्पदघटितं यद्वाक्यं तस्य योर्थस्तादृशार्थकर्मिका या वाक्यान्तरस्था क्रिया तत्कर्तर्येव शक्तिः स्वीक्रियते, अत्र च ' अहं पण्डितः इतिवाक्यार्थकर्मिका या 'बाक्यान्तरस्था जानातिपदप्रतिपाद्या ज्ञानरूपा क्रिया तत्कर्ता स्वपाण्डित्यामिमानपुरुष एवेति तस्याऽत्रत्यास्मत्पदेन प्रतीतिः सूपपादैवैत्यर्थः । निरुक्तस्वतन्त्रोचारणाविषयस्याsस्मत्पदस्योक्तकर्तरि शक्तिस्वीकारस्य फलान्तरमाह एवं चेति, L6 मया त्वयि " इत्यादि वाक्यस्य ऋषिकर्तृकमुच्चारणं स्वतन्त्रोच्चारणं नास्येवेति तादृशर्षिकर्तृकोच्चारणकालेप्यत्र तादृशक्रिया - स्वघटितवाक्यार्थकर्मिका क्रिया “ देव्युवाच " इतिवाक्यान्तरस्थोक्तिक्रियैव तरकतृत्वं देव्या एवेति पूर्वोक्तमं विनैव तत्प्रतीतिः देव्याः प्रतीतिरस्मत्पदेनोपपादयितुं शक्यते इत्यर्थः ।
"