________________
सादर्श:
(११४)
[ विशेषकाण्डेस्य च ' अहं गच्छामि ' इत्यादिप्रकृतवाक्यतात्पर्यविषयपरत्वाभावात् तदुच्चारणे विशिष्टव्यतिरेकः सुघटः। __ आनुपूर्वीसजातीयं यद् वाक्यान्तरं तदुच्चारणानधानत्वं च निवेशयितुमशक्यम्- शब्दानुकरणस्थले एव समानानुपूर्वीकोच्चारणापेक्षानियमात्. वाक्यार्थानुवादस्थले समानार्थकवाक्यमात्रोच्चारणापेक्षणात् तत्र स्वातन्त्र्यापत्तेटुंरित्वात् ।
वस्तुतस्तु वाक्यान्तरस्थक्रियाकर्मतापन्नस्वघटितवाक्यार्थप्रत्यायनेच्छानधीनं स्वोचारणमेव स्वतन्त्रोच्चारणम् , अनुवादस्थले च 'इत्युवाच ' इतिवाक्यान्तपद्यते इत्यर्थः । स्वयमप्याह- प्रश्नवाक्यस्येति, 'को गच्छति' इत्यादिप्रश्नादिवाक्यस्य प्रकृतं यत् 'अहं गच्छामि' इतिवाक्यं तस्य यद् वक्तुः स्वात्मनि तात्पर्य तादृशस्त्रात्मतात्पर्यविषयपरत्वाभावात् तदुच्चारणे- 'अहं गच्छामि' इतिवाक्योचारणेऽन्यदीयोचारणाधीनोञ्चारणत्वसत्त्वेपि विशिष्टस्य अन्यदीयस्वार्थतात्पर्यकोच्चारणाधीनोच्चारणत्वम्य व्यत्तिरेका अभावः सुघट एवेति 'अहं गच्छामि' इत्युच्चारणस्योक्तस्वतन्त्रोचारणत्वं प्राप्तं तेन चात्राहंपदाद् वक्तः प्रीतिरुपपद्यते इत्यर्थः । अत्र स्वतन्त्रोचारितास्मत्पदम्य स्वतन्त्रोचारणकर्तृत्वोपलक्षितधर्माचन्छिन्ने शक्तिरितिसिद्धम् ।
नन्वाऽऽनुपूर्वीसजातीयम् अनुवादकवाक्यानुपूर्वीसजातीयम्-अनुवादकवाक्यसमानानुपूर्वीक यद् वाक्यान्तरं वक्तृवाक्यं तदुचारणानधीनमुच्चारणं स्वतन्त्रोचारणमित्येवोच्यताम् . एवमपि " मया त्वयि " इत्यादिऋष्यादिवाक्यानुपूर्वीसजातीयं यद् " मया त्वयि " इत्यादिदेवीवाक्यं तदुच्चारणाधीनमेव ऋष्याधुच्चारणमस्तीत्यत्रास्मत्पदेन ऋष्यादिबोधापत्ति स्ति, देव्युच्चारणं चानुपूर्वीसजातीयवाक्यान्तरोचारणानधीनत्वात् स्वतन्त्रोच्चारणमेवेत्यस्मत्पदादत्र देव्याः प्रतीतिरुपपद्यते चेत्याशङ्कयाह-- आनुपूर्वीति, द्विविधः खल्वनुवादो भवति- वाक्यानुवादो वाक्यार्धानुवादश्च शब्दानुकरणस्थले वाक्यानुवादस्थले एवं समानानुपूर्वीकवाक्योचारणापेक्षा नियमेन भवतीति तत्रानेन परिष्कारेण दोषाभावेपि वाक्यानुवादस्थले तु समानानुपूर्वीकोचारणापेक्षा. नियमो नास्ति किं तु समानार्थकवाक्यमात्रोचारणापेक्षानियम एवेति तत्रानुवादकवाक्योचार. णस्याऽऽनुपूर्वीसजातीयवाक्यान्तरोचारणानधीनत्वात् स्वतन्त्रोच्चारणत्वं स्यादेव न च वाक्यार्थानुवादस्थलेप्यनुवादकोचारणस्य स्वतन्त्रोचारणत्वमिष्टमऽन्यथानुवादकवाक्यघटकास्मत्पदेनानुवादकस्यैव बोधः स्याद् न तदिष्टं सेन वक्तबोधस्यैवेष्टत्वादिति नायं परिष्कारः सङ्गत इत्यर्थः ।
वक्ष्यमाणदोषभयेन कल्पान्तरमाह- वस्तुतस्त्विति, वाक्यान्तरस्था या क्रिया तादृशक्रियाकर्मतापन्नो यः स्वघटितस्य अस्मत्पदवटितस्य वाक्यस्यार्थस्तादृशार्थप्रत्यायनस्य येच्छा तादृशेच्छा.