________________
अस्मस्पदम्.] शक्तिवादः ।
( ११३) यत्र च तादृशानुपूर्वीविशेषावच्छेदेनापि विशेषदर्शनं तत्र नेष्यते एव तत्प्रतीतिः।
एवम्-अन्यदीयस्वार्थतात्पर्यकोच्चारणानधीनोच्चारणरूपं स्वतन्त्रोच्चारणमस्म. त्पदप्रवृत्तिनिमित्तानुगमकम् , उक्तस्थले ऋष्याधुच्चारणं च न तथा- तस्यार्थप्रतिपादनद्वारा देव्युच्चारणाधीनत्वादिति नाऽस्मच्छब्दाद् ऋष्यादिबोधः । स्वातन्त्र्येण 'अहं गच्छामि ' इत्युच्चारणस्यापि को गच्छति' इत्यादिप्रश्नवाक्यशक्तिग्राहकवाक्योच्चारणाधीनतया स्वार्थपरत्वमुच्चारणविशेषणम् । प्रश्नवाक्यदेव्या नोक्तं किं त्वन्याकारकमेवोक्तमित्येवं तादृशानुपूर्वी विशेषावच्छेदेनापि विशेषदर्शनम् देव्युचरितत्वाभावनिश्चयः स्यात्तदा तूक्तभ्रमोपि न संभवतीति तत्र का गतिरित्याशङ्कयाह- यत्र चेति, उक्तश्रमाभावेऽस्मद्युष्मद्भ्यां देवीमहिषासुरयोः प्रतातिर्नेष्यत एवेत्यर्थः । यदि चत्यत्रानुवःद्यानुवादवाक्ययोविभिन्नानुपूर्वीकत्वेन तद्वाक्यव्यक्तित्वेनोक्तविशेषदर्शनेपि तादृशानुपूर्वीप्रकारकदेव्युच्चस्तित्वभ्रमादेव श्रोतुर्देव्यादिप्रतीतिर्भवतीत्यभिप्रायः । यत्र चेतिपूर्वरक्षस्तूक्तभ्रमस्याऽभावपक्षे विज्ञेय इत्युक्तपूर्वपक्षयोर्विशेषः । __ ननूक्तरीत्या " मया त्वयि " इत्यत्र देव्यादिप्रतीत्यनुपपत्तिबारणे कृतेष्यस्मदादिपदेन ऋष्यादिबोधः स्यादेचेत्याशङ्कयाह- एवमिति, अन्यदीयम् वक्तृकर्तृकं स्वार्थतात्पर्यकम्-स्वात्मतात्पर्य यदऽस्मत्पदोच्चारणं तादृशोचारणानधीनं यदुचारणं तदेव स्वतन्त्रोचारणं तादृशं स्वतन्त्रोचारणं चाऽस्मत्पदप्रवृत्तिनिमित्तानां चैत्रत्वदेवीत्वादीनां सामानाधिकरप्येनानुगमकं बोध्यम्- यत्रैव चैत्रादौ चैत्रत्वादिकं वर्तते तत्रैव समवायेनास्मत्पदोचारणमपि क्रियारूपं वर्तते एवेत्यनुगमकम् , तथा च तादृशस्वतन्त्रास्मत्पदोच्चारणकर्तुरेवास्मत्पदार्थत्वं प्राप्तम् , उक्तस्थले" मया त्वयि " इत्यत्र ऋष्याधुच्चारणं च न तथा उक्तस्वतन्त्रोच्चारणरूपम् - प्रथमं देव्या यथोक्तं तथैव ऋषिणाप्युच्यते इति ऋष्युच्चारणं देवीकतृकस्वात्मतात्पर्यकोचारणाधीनमेवेति तस्य ऋष्यााचारणस्यार्थप्रतिपादनद्वारा-देन्युक्तार्यप्रतिपादनद्वारा देव्युच्चारणाधीनस्वादिति नात्रास्मत्पदाद् ऋष्यादिबोधापत्तिः, देव्युच्चारणं चान्यदीयोचारणानधीनत्वात् स्वतन्त्रोचारणमेवेति देव्या मस्मत्पदात् प्रतीतिर्युक्तैवेत्यर्थः । नन्वऽन्यदीयोच्चारणानधीनोचारणं स्वतन्त्रोच्चारगमित्येवोच्चता स्वार्थतात्पर्यकेतिपदं किमर्थं प्रक्षिप्तमित्याशङ्कयाह- स्वातन्त्र्येणेति, यदि स्वार्थतात्पर्यकेति नोक्तं स्यात् किं तु 'अन्यदीयोच्चारणानधीनोच्चारणं स्तन्त्रोच्चारणम् ' इत्येवोक्तं स्यात्तदा प्रयोजकपद्धेन ' को गच्छति '. इतिप्रश्नवाक्योच्चारणे कृते एव प्रयोज्य: ' अहं गच्छामि' इति वदति तथा ' अस्मत्पदस्य स्वात्मनि उच्चारयितरि वा शक्तिः, इत्यादिशक्तिग्राहकवाक्योचारणे कृते एवास्मत्पदशक्तिं गृहीत्वा प्रयोज्य: 'अहं गछामि' इतिबदतीत प्रश्नादिवाक्योच्चारणाधीनत्वात् 'अहं गच्छामि' इतिस्वतन्त्रोच्चारणस्यापि स्वतन्त्रोच्चारणत्वं न स्याद् इष्टं च स्वतन्त्रो चारणत्वमिति तदर्थ स्वार्थतात्पर्यकेत्युक्तं तथा च ' अहं गच्छामि' इत्युच्चारणस्यान्यदीयप्रश्नादिवाक्योचारणाधीनत्येप्यऽन्यदीयस्वार्थतात्पर्यकोच्चारणाधीनत्वं तु नास्तीति स्वतन्त्रोच्चारणत्वमुप