________________
(११२)
सादर्श:
[विशेषकाण्डे अथ स्वसम्बोध्ये युष्मदः स्वोच्चारयितरि चास्मदः शक्तौ "देव्युवाच-- मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः" इत्यादिऋष्यादिवाक्याद् देवीकर्तृकमहिषासुरकर्मकघातादिबोधानुपपत्तिः- तत्र देव्युच्चरितत्वस्य महिषासुरसंबोध्यत्वस्य चाभावाद, ऋष्यादिकर्तृकसुरथकर्मक्वातादिबोधस्य च योग्यताभ्रमादापत्तिश्च--ऋष्यादेस्तादृशवाक्यप्रयोक्तृत्वात् सुरथादेश्च तत्सम्बोध्यत्वादितिवेत् ?,
न-तत्र तादृशानुपूर्वीप्रकारेण सामान्यप्रत्यासत्या देव्यादिवाक्यस्यापि ज्ञाना देवीमहिषासुरयोस्तादृशवाक्यप्रयोक्तृत्वसंबोध्यत्वप्रतिसंधानादेवाऽस्मयुष्म
या देवीमहिषासुरादिप्रतीत्युपपत्तिः । यदि च तत्र वऋऽनुवादकवाक्ययोर्विभिन्नैवाऽऽनुपूर्वी तदाऽनुवादकवाक्ये तव्यक्तित्वादिना विशेषदर्शनेष्याऽनुपूर्वीप्रकारेण देव्युच्चरितत्वभ्रमादेव श्रोतुर्देव्यादिमतीतिस्वीकारणानुपपत्त्यभावात् ।
उक्तरीत्या स्वसंबोध्ये युष्मदस्य स्वोच्चारयितरि चास्मत्पदस्य शक्तिरिति प्राप्तं तत्र शङ्कतेअथेति । "मया त्वयि" इतिसप्तशतीवाक्यम् । “मया त्वयि” इतिवाक्यं सुरथनामकं राजानं प्रति ऋषिणा श्राव्यते न तु देव्या महिषासुरं प्रति येनास्मत्पदेन देव्या युष्मत्पदेन च महिषासुरस्य बोधे जाते देवीकर्तृकमहिषासुरकर्मकघातस्य बोधः स्यात् । उक्ते हेतुमाह-- तत्रेति । ऋध्यादिकर्तृक सुरथकर्मकघातस्य च यद्यपि यथार्थयोग्यताज्ञानं न संभवति तथापि योग्यताश्रमस्तु सेमवत्येवेति तादृशयोग्यताभ्रमादेवोच्चारकर्षिकर्तृकसंबोध्यसुरक्षकर्मकवातस्य बोधापत्तिरस्त्येवेत्यर्थः । उक्त हेतुमाह- ऋष्यादेरिति । स्पष्टमेव सर्वम् ।।
परिहरति- नेति, तत्र=ऋषिणा सुरथं प्रत्युक्तवाक्यश्रावणस्थले । यथा सामान्यप्रत्यासत्त्या घटत्वप्रकारेण सकलघटानां स्मरणं भवति तथा प्रकृते सामान्यप्रत्यासत्या तादृशानुपूर्वीप्रकारेण"मया त्वयि" इत्यादिवाक्यानुपूर्वी रूपेण देवीवाक्यस्यापि स्मरणं संभवतीति ज्ञानात्-तादृशस्मरणाद् देव्यास्तादृशवाक्यप्रयोक्तृत्वस्मरणं महिषासुरस्य च तादृशवाक्यसंबोध्यत्वस्मरणं जायते तेन च देवीकर्तृकमहिषासुरकर्मकघातस्य बोधानुपपत्तिास्तीत्यर्थः । प्रयोक्तुरस्मत्पदार्थत्वात संबोध्यस्य च युग्मत्पदार्थत्वाद् देव्या तादृशवाक्यप्रयोक्तृत्वस्मरणाद् महिषासुरस्य च तादृशवाक्यसंबोध्यत्वस्मरणादस्मद्युष्मद्भ्यामत्र देवीमहिषासुरयोः प्रीतिर्जायते इत्यभिप्रायः । ननु यत्रानुवाद्यानुवादवाक्ययोरानुपूर्वी समाना स्यात्तत्रोक्तरीत्या सामान्यप्रत्यासत्या तादृशानुपूर्वीप्रकारेणानाद्यवाक्यस्मरणसंभवेपि यत्रानुवाद्यानुवादवाक्ययोरानुपूर्वी विभिन्नरूपा स्यात्तत्र कथमुक्तरीत्याऽनुवाद्यवाक्यस्मरण स्यादित्याशङ्कयाह- यदीति, यद् वाक्यमृषिणोक्तं तद् देव्या नोक्तमित्याकारके तद्वाक्यव्यक्तित्वेन रूपेण विशेषदर्शनेपि-देव्युचरितत्वाभावज्ञानेपि तादृशानुपूर्वीप्रकारेण देव्युच्चरितत्वन्नमस्तु संभवत्येवेति तादृशभ्रमादेवात्र श्रोतुरस्मत्पदेन देव्या युष्मत्पदेन च महिषासुरस्य प्रतीतिः संभवतीत्यर्थः । ननु यदि यथा “मया त्वयि" इत्येवमृषिणा वाक्यमुक्तं तथा