________________
(३०) हरिमनसूरिकृता-
[म्या प्रपृ०५ ततश्च न गुणो भावः गुणेषु भावाद् गुणत्ववत् । यदि च भावो गुणः स्यान तहिं गुणेषुः वर्तेत निर्गुणत्वाद् गुणानाम् । वर्तते च गुणेषु भावः । सन्
गुण इति प्रतीतेः । तथा न कर्म भावः कर्मसु भावात्कर्मस्ववत् । ४ यदि च भावः कर्म स्यात् न तर्हि कर्मसु वर्तेत निष्कर्मकत्वात्कर्मणाम् । वर्तते च कर्मसु भावः । सत्कर्मेति प्रतीतेः । व्यत्ययोपन्यासस्तु प्रतिज्ञाहेस्वोर्षिचित्रन्यायप्रदर्शनार्थम् । इत्येवं वैशेषिकेणोक्ते बौद्ध आह । अयं च हेतुस्त्रि
प्रकारोऽपि यथा द्रव्यादिप्रतिषेधं साधयति तथा मावस्य धर्मिणोऽ८ भावत्वमपि साधयति । तेनाप्यविनाभूतत्वात् । तथा चाह । उभयत्राव्यभिचारात् । उभयत्र द्रव्यादिप्रतिषेधे भावाभावे च गमकत्वात् । तथा च । यतथैद्वक्तुं शक्यते न द्रव्यं भावः एकद्रव्यत्वात् द्रव्यत्ववत् एवमिदमपि शक्यते भावो भाव एव न भवति एकद्रव्यत्वात् द्रव्यत्ववत् । न च द्रव्यस्वं भावः सामान्यविशेषत्वात् । एवं न गुणः गुणेषु भावात् गुणत्ववत् । अत्रापि भावो भाव एव न भवति गुणेषु भावात् गुणत्ववत् । न च गुणत्वं भाषा सामान्यविशेषत्वादेव । एवं न कर्म भावः कर्मसु भावात् कर्मत्ववत् अत्रापि
भावो भाव एव न भवति कर्मसु भावात् कर्मत्ववत् । न च कर्मत्वं भावः १६ सामान्यविशेषत्वात् । सामान्यविरुद्धलक्षणयोजना तु भावविपक्षत्वात्सामा
न्यविशेषस्य सुकरैव । आह अयमसिद्धान्न विशिष्यते इति कथं विरुद्धः? । तथाहि । न भावो नाम द्रव्यादिव्यतिरिक्तः कश्चिदस्ति सौगतानाम् ।
तदभावाचाश्रयासिद्ध एव हेतुरिति । अत्रोच्यते सत्यमेतत् । किंतु पर२० प्रसिद्धोऽपि विपक्षमात्रव्यापी विरुद्ध इति निदर्शनार्थत्वात् । एकस्मिमपि
चानेकदोषजात्युपनिपातनात् तद्भेददर्शनार्थत्वान्न दोष इति । आह एवमविरुद्धभावः सर्वत्र विशेषविरुद्धभावादिति । न । विरोधिनोऽधि
कृतहेत्वन्वितदृष्टान्तबलेनैव निवृत्तेः । तथाप्यनित्यः शब्दः पाक्यत्वाघटवत् २४ पाक्यः शब्द इति विरुद्धोरणायां कृतकत्वान्वितापाक्यपटादिदृष्टान्तान्त
सामर्थ्यात्तनिवृत्त्या न विरुदता । अनिवृत्तौ चाभ्युपगम्यत एव ।