________________
न्या. प्र. पृ०६] न्यायप्रवेशवृत्तिः
(३१) अशक्या चेह तमिचिरेकेद्रव्यवत्वस्य तद्यतिरेकेणान्यत्रावृत्तेरिति । अत्र बहु वक्तव्यम् । अलं प्रसङ्गेन ॥ धर्मिविशेषविपरीतसाधनो यथा । धर्मी भाव एव तद्विशेषः सत्सत्ययकर्तृत्वम् । यत उक्तं सदिति यतो द्रव्य४ गुणकर्मसु सा सत्ता । तद्विपरीतसाधनो यथा । अयमेव हेतुरेकद्रव्यवत्त्वाख्यः
अस्मिन्नेव पूर्वपक्षे न द्रव्यं भाव इत्यादिलक्षणे अस्यैव धर्मिणो भावाख्यस्य यो विशेषो धर्मः सत्प्रत्ययकर्तृत्वं नाम तद्विपरीतमसत्पत्ययकर्तृत्वमपि साधयति । तेनापि व्याप्यत्वात् । तथा खेतदपि वक्तुं शक्यत एव भावः ८ सत्मत्ययकर्ता न भवति एकद्रव्यवत्त्वाव्यत्वत् । न च द्रव्यत्वं सत्प्रत्ययकर्तृ द्रव्यप्रत्ययकर्तृत्वात् । एवं गुणकर्मभावहेलोरपि वाच्यम् । अत एवमुक्तम्उभयत्राव्यभिचारादिति । भावितार्थमेव । आक्षेपपरिहारौ पूर्ववत् ॥
उक्ता हेत्वाभासाः । सांप्रत दृष्टान्ताभासानामवसरः । ते उच्यन्ते । तत्र १२ यथा दृष्टान्तो द्विविधः एवं मूलभेदव्यपेक्षया तदाभासोऽपि तथा । आह ।
दृष्टान्ताभासो द्विविधः । साधम्र्येण वैधर्येण च । दृष्टान्त उक्तलक्षणः । दृष्टान्तवदाभास इति दृष्टान्ताभासः । दृष्टान्तमतिरूपक इत्यर्थः । तत्र साधयेण तावदृष्टान्ताभासः पञ्चप्रकारः पश्चभेदः तद्यथा । साधनधर्मासिद्ध इत्यादि । तद्यथेति भेदोपदर्शनार्थः । साधनधर्मों हेतुरसिद्धो नास्तीत्युच्यते । ततश्च साधनधर्मोऽसिद्धोऽस्मिन् सोऽयं साधनधर्मासिद्धः । न तु बहुव्रीही निष्ठान्तं पूर्व निपततीति कृत्वाऽसिद्धसाधनधर्मा इति । न वाऽहिताग्न्यादिषु
वचनाव । आहितान्यादेवाकृतिगणत्वाद्विकल्पवृत्तेरिति । अन्ये तु साधन२० धर्मेण रहितत्वादसिद्धः साधनधर्मासिद्धः इति व्याचक्षते । न चैतदति
शोभनम् । एवं साध्योभयधर्मासिद्धयोरपि भावनीयम् । अन्वयादिशब्दार्थ तूदाहरणाधिकारे वक्ष्यामः । स चावसरः प्राप्त एवेति यथाक्रमं निर्दिश्यते ।
सत्र साधनधर्मासिद्धो यथा । नित्यः शब्दोऽमूर्तत्वात् । यथेत्युदाहरणा२५ पन्यासार्थः । नित्यः शब्द इति प्रतिज्ञा पक्षः । अमूर्तत्वादिति हेतुः । अन्वयमाह ।