________________
हरिभद्रक्षुरिकृता --
[ म्या. म. ०५
विशिष्यते इति । विपर्ययसाधकत्वेनासिद्धेः । एतत्प्रधानस्वाचोपन्यासस्य । अन्यथाऽनैकान्तिकस्याप्यसिद्धत्वप्रसङ्गः । नित्यस्वादिसाधनत्वेन प्रमेयत्वादीनामपि असिद्धत्वात् । इत्यलं प्रसङ्गेन । गमनिकामात्रमेतत् । धर्मविशेष४ विपरीतसाधन इत्यस्योदाहरणं यथा परार्थाश्चक्षुरादयः संघातत्वात् शयनासनाद्यङ्गवत् इति । कः पुनरेवमाह । । सांख्यो बौद्धं प्रति । इह चक्षुरादयो धर्मिणः 1 आदिशब्दात् शेषेन्दियमहदहंगरादिपरिग्रहः । पारायै साध्यधर्म । अस्य च विशेषोऽसंहतपरार्थत्वमिष्टम् । ८ अन्यथा सिद्धसाध्यतापत्त्या प्रयोगवैकल्यमसङ्गः । संघातत्वादिति हेतुः । तत्र द्वयोर्बहूनां वा मेलकः संघातस्तस्य भावः संघातत्वं तस्मात्संघाप्तत्वात् । शयनासनाद्यङ्गवदिति दृष्टान्तः । शयनं पल्यङ्कादि । आसनमासन्दकादि । तदङ्गानि प्रतीतान्येव । यथैतदङ्गानि संघातत्वा देवदत्तादिपरार्थानि वर्तन्ते १२ एवं चक्षुरादयोऽपीति भावार्थ: । अधुना विरुद्धमाह । अयमित्यादि । अयं हेतुः संघातत्वलक्षणो यथा येन प्रकारेण पारायै परार्थभावं चक्षुरादीनां साधयति तथा तेनैव प्रकारेण संहतत्वमपि सावयवत्वमपि परस्यात्मनः साधयति । तेनाप्यविनाभूतत्वात् । तथा १६ चाह । उभयत्राव्यभिचारात् । उभयत्रेति परायें संहतत्वे च अव्यभि - चाराद् गमकत्वादित्यर्थः । तथा चैवमपि वक्तुं शक्यत एव संहतपरार्थाश्रक्षुरादयः संघातत्वात् शयनासनाद्यवदिति । शयनासनाद्यङ्गानि हि संहतस्य करचरणोरुग्रीवादिमत एवार्थ कुर्वन्ति नान्यस्य I २० तथोपलब्धेरिति । आह विपक्ष एव भावाद्विरुद्ध इति सामान्यं विरूद्धलक्षणं तत्कथमिहोपपद्यते १ इति । उच्यते । असंहतपरविपक्षी हि संहत इति तत्रैव वृत्तिदर्शनात् किं नोपपद्यते १ । आक्षेपपरिहारौ पूर्ववत् ॥ धर्मिस्वरूपविपरीतेत्यादि । धर्मा अस्य विद्यन्ते इति धर्मी । उदाहरणं तु २४ यथा न द्रव्यमित्यादि । कः पुनरेवमाह १ । वैशेषिको बौद्धान्मति । केन पुनः संबन्धेन १ इति । उच्यते । तस्य सिद्धान्तो द्रव्यगुणकर्मसामान्यविशेषसमवायाः
(१८)