________________
न्या. प्र. पृ०५] न्यायप्रवेशवृत्तिः
(२५), नित्यमिति । उभयोः संशयहेतुत्वादिति । एकत्र धर्मिणि उभयोः कृतकत्वश्रावणत्वयोः संशयहेतुत्वात् संदेहहेतुत्वात् । तथा चैकत्र धर्मिणि
कृतकत्वश्रावणत्वाख्यौ हेत्. संदेहं कुरुतः किं कृतकत्वायटवदनित्यः ४ आहोस्विच्छावणत्वाच्छन्दत्ववन्नित्यः इति । एवं संदेहहेतुत्वे प्रतिपादिते पर
श्रोदयति किं समस्तयोः संदेहहेतुत्वम् उत व्यस्तयोः । यदि समस्तयोः संदेहहेतुत्वं तदाऽसाधारणान्न भिद्यते । श्रावणत्वं चासाधारणत्वेनोक्तम् ।
अथ व्यस्तयोस्तदपि न । व्यस्तयोः सम्यग्धेतुत्वात् । अत्रोच्यते । समस्त८ योरेव संदेहहेतुत्वम् । ननूक्तम् असाधारणान भिद्यते । तम । यतो भियत
एव । परस्परसापेक्षो विरुद्धाव्यभिचारी चेति । एककः असहायोऽसाधारणः । स चानेनांशेनाऽऽचार्येण भिन्न उपात्त इति तस्माददोषः । उक्तं च मूलग्रन्ये द्वावप्येतावेकोऽनैकान्तिकः समुदितावेव । अनुद्भाविते तु तदभाव इति । अत्र बहु वक्तव्यम् । तत्तु नोच्यते । संक्षेपरुचिसत्त्वानुग्रहार्थोऽयमारम्भः । इत्युक्तोऽनैकान्तिकः ॥ सांप्रतं विरुद्धमाइ. विरुद्धश्चतुःप्रकार इत्यादि । विरुध्यते स विरुद्धः । तथा ह्ययं धर्मस्वरूपादिविपरीतसाधनाद्धर्मेण धर्मिणा वा
विरुध्यत एवेति चतुःप्रकारश्चतुर्भेदः । तद्यथा । धर्मस्वरूपविपरीतसाधन १६ इत्यादि । तद्यथेति भेदोपन्यासार्थः । शब्दार्थमुदाहरणाधिकार एव वक्ष्यामः ।
तत्र धर्मेत्यादि । तत्र धर्मस्वरूपविपरीतसाधनो यथा नित्यति .. पूर्ववत् । धर्मः पर्याय इत्यनन्तरम् । तस्य स्वरूपमसाधारणमात्मलक्षण
धर्मस्वरूपं तस्य विपरीतसाधन इति समासः । एवं शेषेष्वपि द्रष्टव्यमिति । २० अधुनोदाहरणमाह । यथा नित्यः शब्दः कृतकत्वात् प्रयत्नानन्तरीय
कत्वाद्वा इत्ययं हेतुर्विपक्ष एव भावाद्विरुद्धः । अत्र धर्मस्वरूपनित्यत्वम् । अयं च हेतुविपरीतमनित्यत्वं साधयति । तेनैवाविनाभूतत्वात् । तथा
चाइ । विपक्ष एव भावाद्विरुद्धः । आह अयमपक्षधर्मत्वादसिद्धान २४ विशिष्यते कयं विरुद्ध इति । अत्रोच्यते । नावश्यं पक्षधर्म एव विरुद्धता __ अन्यथाप्याचार्यप्रवृत्तेः । अधिकृतयोगज्ञापकात् । न घायमसिदान