________________
(२६) हरिभवसरिकृता
[न्या. प्र. पृ०५ प्रयत्नानन्तरीयकः शब्दः आहोस्विद्विादादिवदनित्यत्वादप्रयनानन्तरीयक इति । प्रकटार्थम् ॥ विपक्षैकदेशवृत्तिः सपक्षघ्यापी । समासः सुकर एव । उदाहरणमाह । यथा प्रयत्नानन्तरीयकः शब्दोऽनित्यत्वात् । प्रयत्नानन्तरीयकः पक्षोऽस्य घटादिः सपक्षः । तत्र सर्वत्र घटादौ विद्यतेऽनित्यत्वम् । प्रयत्नानन्तरीयकः पक्षोऽरय विद्युदाकाशादिर्विपक्षः । तत्रैकदेशे विद्यदादौ विद्यतेऽनित्यत्वम् । नाकाशादौ । तस्मादेतदपि विद्युद्घटसाधर्येण पूर्वपदनैकान्तिकम् इति सूत्रार्थः । उक्तवपरीत्येन स्वधिया भावनीयमिति ॥ उभयपक्षै. कदेशवृत्तिः । उभयपक्षयोः सपक्षविपक्षयोरेकदेशत्तिरस्यति उभयपकदेशत्तिः । उदाहरणमाह । यथा नित्यः शब्दोऽभूतत्वादिति । नित्यः पक्षोऽस्याकाशपरमाण्वादिः सपक्षः । तत्रैकदेश आकाशार्दी विद्यतेऽमूर्तत्वं न परमाण्वादौ । अनित्यः पक्षोऽस्य घटसुखादिर्विपक्षः । तत्रैकदेशे सुखादौ विद्यतेऽभूतत्वं न घटादौ । तस्मादेतदपि सुखाकाशसाधयेणानैकान्तिकम् । एतदपि सूत्रं निगदसिद्धम् । तथा
बिरुद्धाव्यभिचारी । अधिकृतहेत्वनुमेयविरुद्धार्थसाधको विरुद्धः । विरुद्ध १६ न व्यभिचरतीति विरुद्धाव्यभिचारी । उपन्यस्तः सन् तथाविधार्थी
निराकृतेः प्रतियोगिनं न व्यभिचरतीति भावः । ततश्चानेन प्रतियोगिसाध्यमपाकृत्य हेतुपयोगः कर्तव्य इत्यंतदाह । अन्ये तु विपासावव्यभिचारी
च विरुद्धाव्यभिचारीति व्याचक्षते । इदं पुनरयुक्तमेव । विरोधादनेकान्त२० वादापत्तेश्च । उदाहरणमाह । यथाऽनित्यः शब्दः कृतकत्वाद् घटवत् ।
नित्यः शब्दः श्रावणत्वात् शब्दत्ववत् । उभयोः संशयहेतुस्वात् द्वावप्येतावेकोऽनैकान्तिकः समुदितावेव । अनित्यः शब्दः
कृतकत्वाद्घटवदिति वैशेषिकेणोक्ते मीमांसक आह । नित्यः शब्दः श्रावण२४ स्वात् शब्दत्ववत् । शब्दत्वं हि नाम वेणुवीणामृदङ्गपणवादिभेदभिषेषु
सर्वशब्देषु शब्द इत्यभिन्नाभिधानप्रत्ययनिबन्धनं सामान्यविशेषसंज्ञितं