________________
न्या. प्र.०४]
न्यायप्रवेशवात्तः इत्यादि । साधारणविलक्षणः असाधारणः असामान्यः पक्षधर्मः सन् सपक्षविपक्षाभ्यां व्यावृत्त इत्यर्थः । उदाहरणमाह । श्रावणत्वामित्य इति । श्रवणेन्द्रियग्राम: श्रावणस्तद्भावः श्रावणत्वं तस्मात् । नित्यः अविनाशी । शब्द इति गम्यते । तत्रेदं श्रावणत्वं स्वधर्मिणं विहाय न सपक्षे आकाशादौ नापि विपक्षे घटादौ वर्तत इति संशयनिमित्तम् । अत एवाह । तद्धीत्यादि । तत् श्रावणत्वम् । हि रूपप्रदर्शने । नित्यानित्यपक्षाभ्यां व्यावृत्तत्वात् । संशयहेतुरिति योगः । अन्यत्र वर्तिष्यत इतीदमपि निराकुर्वनाह । नित्यानित्यविनिर्मुक्तस्य चान्यस्य चासंभवात् । यदस्ति तेन नित्येन पा भवितव्यमनित्येन वा नान्यथा । विरोधादतिमसंगाच्च । अतः संशयहेतु: संशयकारणम् । कथमित्याह । किंभूतस्येत्यादि । किंमकारस्य किं नित्यस्या
होस्विदनित्यस्यास्येति । प्रस्तुतस्य शब्दस्य श्रावणत्वमित्येतदुक्तं भवति । १२ यदि तदन्यत्र निस्ये वाऽनित्ये वोपलब्धं भवति ततस्तबलेनेतरत्रापि निश्चयो
युज्यते नान्यथा । विपर्ययकल्पनाया अप्यन्यनिवारितप्रसरत्वात् । इत्यत्र बहु वक्तव्यम् । अल प्रसङ्गन । आक्षेपपरिहारौ पूर्ववत् । एवं शेषेष्वपि भावनीयमिति ।।
सपक्षकदेशवृत्तिरित्यादि । समानः पक्षः सपक्षः तस्यैकदेशः सपक१६ देशः तस्मिन्वृत्तिरस्येति सपक्षकदेशवृत्तिः । तथा विसदृशः पक्षो विपक्षस्तं
व्याप्तुं शीलमस्येति विपक्षव्यापी । उदाहरणमाह । यथा । अप्रयस्नानन्तरीयकः शब्दो नित्यत्वादिति । शब्दो धर्मी । अप्रयत्मानन्तरीयकत्वं
साध्यो धर्मः । अनिस्यत्वादिति हेतुः । तत्र अप्रयत्नानन्तरीयक: पक्षः । २० अप्रयत्नानन्तरीयकोऽयः । अस्य साध्यविद्युदाकाशादिपदार्थसंघात:
किम् । सपक्षः । तत्रैकदेशे विधुदादौ वर्ततेऽनित्यत्वं नाकाशादी। नित्यत्वात्तस्य । तथा अप्रयत्नानन्तरीयका पक्षोऽस्य घटादिविपक्षः ।
तत्र सर्वत्र घटादौ विद्यतेऽनित्यत्वम् । प्रयत्नानम्तरीयकस्यानित्यत्वात् । २५ यस्मादेवं तस्मादेतदपि अनित्यत्वं विद्युद्घटसाधम्र्येण विद्युद्घटतुल्य
तयाऽनैकान्तिकम् । भावनिकामाइ । किं घटवत् अनित्यस्वात