________________
(२४) हरिभद्रसूरिकृता-
[न्या. प्र. पृ० ३ तस्माददोषः। आह । यद्येवमसिद्धभेदद्वयमेवास्तु उभयासिद्धोऽन्यतरासिद्धश्चेनि | शेषद्वयस्यात्रैवान्तर्भावात् । तथा चान्यैरप्युक्तम्
असिद्धभेदौ द्वावेव द्वयोरन्यतरस्य वा ॥ .४ इत्यादि । नैतदेवम् । धर्म्यसिद्धिहेतुसंदेहोपाधिद्वारेण भेदविशेषस्य सिद्धेः ।
विनेयव्युत्पत्तिफलत्वाच्च शास्त्रारम्भस्य । पर्याप्तं विस्तरेणोक्तोऽसिद्धः ॥ सांप्रतम् अनैकान्तिकः उच्यते । स च षट्प्रकारः पडिधः । एकान्ते भव ऐकान्तिकः । न ऐकान्तिकोऽनैकान्तिकः । षष्ट प्रकारा अस्येति पझकार: ८ षड्विधइत्यर्थः ॥ भेदानेवाह । साधारण इत्यादि । अन्वर्थम् । इत्युदाहरणमेघ वक्ष्यामः । तत्र साधारणः प्रमेयत्वान्नित्य इति । तत्रेति पूर्ववत् । द्वयोर्बहूनां वा यः सामान्यः स साधारणः । प्रमीयते इति प्रमेयो ज्ञेय इत्यर्थः तद्भावः
प्रमेयत्वं तस्मात्प्रमेयत्वात् प्रमाणपरिच्छेद्यत्वात् । नित्य इत्यत्र शब्दाख्यो १२ धर्मी गम्यते । इदं च सपक्षेतराकाशघटादिभावेन साधारणत्वात् संशयनि
मित्तमिति । आह च । तद्धि नित्यानित्येत्यादि । तत् प्रमेयत्वं धर्मः । हि रूपप्रदर्शने । नित्यश्चानित्यश्च नित्यानित्यौ नित्यानित्यौ च तो पक्षौ च नित्यानित्यपक्षौ । तयोनित्यानित्यपक्षयोरित्यर्थः । किम् ? । साधारणत्वात् १६ तुल्यवृत्तित्वादनैकान्तिकम् । प्रयोग एव दर्शयति । किं घटवत् प्रमे
यत्वादनित्यः शब्दः आहोस्विदाकाशवत प्रमेयत्वान्नित्य इति प्रकटायें दर्शयति । अहो नायं संशयहेतुः । एतत्मयोगमन्तरेक, प्रागेव संशयस्य भावात् । तद्भावभावित्वानुपपत्तः । उक्तं च ।
अनेकान्तिकभेदाश्च नैव संशीतिकारणम् ।
संदेहे सति हेतूक्ते सद्भावस्याविशेषतः ।। इत्यादि । नैतदेवम् । संशयस्याविवक्षितत्वात् । तमन्तरेणापि
प्रयोगोपपत्तेश्च । क्रियते च विपर्यस्तमतिप्रतिमतिपत्त्यर्थमपि प्रयोगः । २४ नत्रापि संशयहेतुत्वादनकान्तिकमिति ॥ असाधारणः श्रावणत्वान्नित्य
२०