________________
न्या. प्र.५०३] न्यायप्रवेशवृत्तिः
(२१) माप्त्यर्थः ॥ इदानीमुदाहरणान्याह । तत्र शब्दानित्यत्वे इत्यादि । तत्रेति पूर्ववत् । शब्दानित्यत्वे साध्ये अनित्यः शब्दः इत्येतस्मिन् चाक्षुषत्वादिति । चक्षुरिन्द्रियग्राह्यश्चाक्षुषस्तद्भावधाक्षुषत्वम् । तस्मादित्ययं हेतुरु४ भयासिद्धः । तथाहि-चाक्षुषत्वं न वादिनः प्रसिद्धं नापि प्रतिवादिनः ।
श्रोत्रेन्द्रियग्राह्यत्वाच्छब्दस्य ॥ कृतकत्वादिति शब्दाभिव्यक्तिवादिनं प्रति अन्यतरासिद्धः । शब्दानित्यत्वे साध्ये इति । वर्तते कृतकत्वादित्ययं हेतुः शब्दाभिव्यक्तिवादिनं मीमांसकं कापिलं वा प्रत्यन्यतरासिद्धः। ८ तथाहि-न तस्य ताल्वोष्टपुटादिभिः क्रियते शब्दः किंत्वभिव्यज्यत
इति ॥ तथा बाष्पादिभावेनेत्यादि । वाष्पो जलादिप्रभवः स आदिर्यस्य रेणुवादेः स बाष्पादिस्तस्य भावः सत्ता तेन बाप्पादिभावेन । संदिह्यमानः
किमयं धूम उत बाष्प उत रेणुवतिरिति संदेहमापद्यमानः । भूतसंघातः १० मूक्ष्मः क्षित्यादिसमूहः । किम् ? । अग्नेः सिद्धिरनिसिद्धिस्तस्यामप्रिसिद्धी ।
अग्निरत्र भूमादिति उपदिश्यमानः प्रोच्यमानः संदिग्धासिद्धः । निश्चितो हि धूमो धूमत्वेन हुतवई गमयति नानिश्चित इति । तथा द्रव्यमाकाशमि.
त्यादि । आकाश इति धर्मिनिर्देशः । द्रव्यमिति साध्यो धर्मः । गुणावास्य १६ षट् । तद्यथा । संख्या परिमाणं पृथक्त्वं संयोगो विभागः शब्दश्चेति ॥
तत्र गुणानामाश्रयः गुणाश्रयस्तद्भावस्तत्त्वं तस्मात् गुणाश्रयत्वादिति । अयं हेतुराकाशासत्त्वकादिनं बौद्धं प्रत्याश्रयासिद्धः । धर्मिण एवासिद्धत्वात् । तथा च तस्यायं सिद्धान्तः । पञ्च इमानि भिक्षवः संज्ञामात्रं संवृतिमात्रं प्रतिज्ञामात्रं व्यवहारमात्र कल्पनामात्रम् । कतमानि पश्च । अतीतः अदा अनागतः अद्धा प्रतिसंख्यानिरोधः आकाशं पुद्गल इति । ननु चान्योऽप्यस्ति असिद्धः स च द्विधा । प्रतिज्ञार्थंकदेशासिद्धः । यथा अनित्यः शब्दोनित्य
त्वात् । अध्यापकासिद्धश्वेति । यथा सचेतनास्तरवः स्वापात् । स कस्मा२४ मोक्तः । आचार्य आह । अन्तर्भावात् । क पुनरन्तर्भाव इति चेत् उभयासिद्ध ।