________________
हरिभवभूरिकृता- न्या. प्र. पृ० ३ यस्मिन् स तथाविधः । इह शब्दो धर्मी श्रावणत्वं साध्यधर्मः उभयं चैतत् वादिप्रतिवादिनोः प्रसिद्धम् । एषां वचनानि इत्यादि । एषामिति
नवानामपि परामर्शः । वचनानि प्रतिज्ञादोषा इति संबन्धः कारणमाह । ४ धर्मस्वरूपनिराकरणमुखेन पञ्चानामाद्यानाम् । स्वं च तद्रूपं च स्वरूपमित्यर्थः । निराक्रियतेऽनेनेति निराकरोतीति वा निराकरणम् । प्रतिषेधनमित्यर्थः । धर्मस्वरूपस्य निराकरणं तत्तथा मुखमिव मुखं द्वारमिति भावः । धर्मस्वरूपनिराकरणमेव मुखम् तेन धर्मस्वरूपनिराकरणमुखेन धर्मयाथात्म्यप्रति८ षेधद्वारेणेत्यर्थः । प्रतिषिध्यते चाश्रावणः शब्दः । इत्येवमादिषु पञ्चसु प्रत्य
क्षादिप्रसिद्ध धर्मयाथात्म्यामिति भावना । तथा प्रतिपादनासंभवतस्त्रयाणाम् । तत्र प्रतिपाद्यतेऽनेन प्रतिपादयतीति वा प्रतिपादनम् । परप्रत्यायन
मिति हृदयम् । तस्यासंभवः प्रतिपादनासंभवः तस्मात् प्रतिपादनासंभवतः । १२ न च दृष्टान्ताद्यप्रतिपत्तौ प्रतिपादनं संभवति । तथा साधनवैफल्यतश्चैकस्य ।
विफलस्य भावो वैफल्यं साधनस्य वैफल्यं साधनवैफल्यं तस्मात्साधनवैफल्यतः । च समुच्चये । ततश्च एपो वचनानि । प्रतिज्ञादोषाः । प्रतिज्ञा
पक्ष इत्यनान्तरम् । दोषाभास इति च तुल्यम् । इत्यभिहिताः पक्षाभासाः ।। १६ सांप्रतं हेत्वाभासानभिषित्सुराह । असिद्धानकान्तिकविरुद्धा
हेत्वाभासाः । असिद्धश्च अनैकान्तिकश्च विरुद्धश्च असिद्धानकान्तिकविरुद्धाः । हेतुवदाभासन्ते इति हेत्वाभासाः । यथोदेशं निर्देश इति न्याय
मङ्गीकृत्यासिद्धपतिपिपादयिपयाह । तत्रासिद्धचतुःप्रकारः। तत्र एषु अ२० सिद्धादिषु । असिद्धः सिध्यति स सिद्धः प्रतीतः न सिद्धः असिद्धः अपतीतः ।
चतुःप्रकारश्चतुर्भेदः । प्रकारान्दर्शयति । तद्यथा । उभयासिद्ध इत्यादि । तद्यथेति पूर्ववत् । उभयो,दिप्रतिवादिनोः असिद्ध उभयासिद्धः ॥
अन्यतरस्य वादिनः प्रतिवादिनो वा असिद्धः अन्यतरासिद्धः ॥ संदिह्यते २४ स संदिग्धः । संदिग्यत्वादेवासिद्धः संदिग्धसिद्धः ॥ आश्रयो धर्मी
सोऽसिद्धों यस्यासौ आश्रयासिद्धः । च समुच्चये । इतिशब्दः परिस