________________
धादित्यादि [ यागसूत्रमापतौ इष्टार्थसिद्धथेनुमा विप्रतिपत्तिमात्र
न्या. प्र.०३] न्यायप्रवेशवृत्तिः
(११) ततश्चामसिद्धं विशेषणं यस्मिन् स तथाविधः । एवं शेषेप्यक्षरगमनिका कार्येति । अत्र च शब्द इति निर्देशः । विनाशीति साध्यधर्मः । अयं च बौद्धस्य
सांख्य प्रति अप्रसिद्धविशेषणः। न हि तस्य सिद्धान्ते किंचिदिनन्धरमस्ति । यत ४ उक्तम्-तदेतत्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात् । अपेतमप्यस्ति विनाशपति
धादित्यादि [यागसूत्र-३,१३ व्यासभाष्य] । आह । यद्येवं न कश्चित्पक्षाभासो नामास्ति । तथाहि-विप्रतिपत्तौ इष्टार्थसिद्धयेऽनुमानप्रयोगः । विप्रतिपचिरेष
चैतदोषकीति कुतोऽनुमानम् । अत्रोच्यते । न विप्रतिपत्तिमात्रं तद्दो. ८ पकर्तृ युक्तिविरुद्धत्वात् । तथाहि--उपपतिभिर्दृष्टान्तसाधने कृतेऽनुमान प्रयोगः इष्टार्थसिद्धये भवति । नान्यथा । पुनः साधनापेक्षत्वात् । अतो दृष्टान्तं प्रसाध्य प्रयोगः कर्तव्य इति । अप्रसाधिते तु पक्षाभासः । इति कृतं
प्रसङ्गेन ॥ तथा अप्रसिद्धविशेष्यो यथा सांख्यस्य बौद्धं प्रति चेतन १२ आत्मेति । तत्र विशेष्यो धर्मीत्यनान्तरम् । इह चात्मा धर्मी ।
चेतनत्वं साध्यधर्मः । इति पक्षः सांख्यस्य बौद्धं प्रति अपसिद्धविशेष्यः । आत्मनोऽप्रसिद्धत्वात् । सर्वे धर्मा निरात्मान इत्यभ्युपगमात् । आक्षेपपरि
हारौ पूर्ववत् ॥ तथा अमसिद्धोभयो यथा । वैशेषिकस्य बौद्धं प्रति १६ सुखादिसमवायिकारणमात्मा इति । उभयं धर्मधर्मिणौ । तत्रात्मा धर्मी ।
सुखादिसमवायिकारणत्वं साध्यधर्मः । वैशेषिकस्य हि कारणत्रयात्कार्य भवति । तद्यथा-समवायिकारणात् असमवायिकारणात् निमित्तकारणाच्च ।
तथाहि-तन्तवः पटस्य समवायिकारणं तन्तुसंयोगोऽसमवायिकारणं तुरी२० वेमादयस्तु निमित्तकारणम् । इत्थमात्मा सुखदुःखेच्छादीनां समवायिकारणम् ।
आत्ममनःसंयोगोऽसमवायिकारणम् । स्रक्चन्दनादयो निमित्तकारणम् । इत्येवं वैशेषिकस्य वौद्धं प्रति अप्रसिद्धोभयः । न तस्यारमा विशेष्यः
सिद्धो नापि समवायिकारणं विशेषणम् । सामग्र्या एव जनकत्वाभ्युपगमात् । २४ आक्षेपपरिहारौ पूर्ववत् ।। तया प्रसिद्धसंबन्धो यथा श्रावणः शब्द इति ।
प्रसिद्धो वादिप्रतिवादिनोरविप्रतिपत्त्या स्थितः संबन्धो धर्मधर्मिलक्षणो