________________
(२०)
हरिभद्रसूरिकृता-
[न्या. प्र. पृ०२
अमसिद्धविशेषणादिशब्दार्थमुदाहरणनिरूपणायामेव वक्ष्यामः । सांपत. मुदाहरणानि दर्शयति । तत्र प्रत्यक्षविरुद्धः इत्युधेशः । यथा
अश्रावणः शब्दः इत्युदाहरणम् । अत्र शब्दो धर्मी । अश्रावणत्वं साध्य४ धर्मः । अयं च साध्यमानस्तत्रैव धर्मिणि प्रत्यक्षप्रसिद्धेन श्रावणत्वेन विरुध्यते इति प्रत्यक्षविरुद्धः । आह । श्रावणत्वं सामान्यलक्षणत्वात्प्रत्यक्षगम्यमेव न भवति कथं प्रत्यक्षप्रसिद्धधर्मविरुद्धः १ इति । अत्रोच्यते । भावप्रत्ययेन स्वरूपमात्राभिधानात्सामान्यलक्षणत्वानुपपत्तेरदोष इति । अत्र च बहु वक्तव्यं तत्तु ८ नोच्यते । अक्षरगमनिकामात्रफलत्वात्प्रयासस्य ॥ अनुमानविरुद्धो यथा । नित्यो घट इति । अत्र घटो धर्मी । नित्यत्वं साध्यधर्मः । स चानुमानप्रसिदेनानित्यत्वेन तत्रैव धर्मिणि बाध्यते । अनुमानं चेदम् । अनित्यो घटः कारणा
धीनात्मलाभत्वात् प्रदीपवत् ॥ आगमविरुद्धो यथा । वैशेषिकस्य नित्यः १२ शब्द इति साधयतः । वैशेषिकोऽहमित्येवं पक्षपरिग्रहं कृत्वा यदा शब्दस्य
नित्यत्वं प्रतिजानीते तदागमविरुद्धः । यतस्तस्यागमे शब्दस्यानित्यत्वं प्रसिद्धम् । उक्तं च बुद्धिमत्पूर्वा वाक्यकृतिदे तद्वचनादाम्नायस्य प्रामाण्यमित्यादि ॥
लोकविरुद्धो यथा । शुचि नरशिरःकपालं प्राण्यङ्गत्वात् शमशुक्ति१६ वत् इति । अत्र नरशिरःकपालं धर्मित्वेनोपादीयते । शुचित्वं साध्यधर्मः ।
स च साध्यमानस्तत्रैव धर्मिणि लोकप्रसिद्धशुचित्वेन निराक्रियत इति । आह । इह हेतुदृष्टान्तोपादानं किमर्थमुच्यते ? । लोकस्थितेर्वलीयस्त्वख्यापनार्थम् ।
नानुमानेनापि लोकमसिद्धिाध्यत इत्यर्थः ॥ स्ववचनविरुद्धो यथा । २० माता मे बन्ध्या इति । इह च माता साध्यधर्मित्वेनोपात्ता । बन्ध्येति च
साध्यधर्मः । स च साध्यमानस्तत्रैव धर्मािण स्ववचनमसिद्धेन मातृत्वेन विरुध्यते । विरोधश्च मातृशब्देन प्रसवधर्मिणी वनितोच्यते बन्ध्याशब्देन
तद्विपरीता । ततश्च यदि माता कथं वन्ध्या ? वन्ध्या चेत्कयं मातेति १ ॥ तथा २४ अप्रसिद्धविशेषणो यथा । बौद्धस्य सांख्यं प्रति विनाशी शब्द इति ।
न प्रसिद्धमप्रसिद्धम् । विशिष्यते अनेनेति विशेषणं साध्यधर्मलक्षणम् ।