________________
न्या. प्र. १०२ २]
न्यायप्रवेशवृति
( १९ )
दाहरणमाह । यथा भावाभावोऽभावः । यथेत्यौपम्ये । भावः सत्ता तस्याभावो भावाभावः । असावभाव उच्यते । न तु भावादन्योऽभावो नाम वस्तुस्वरूपोऽस्ति एवं नित्यशब्देनात्रेत्यादि दार्शन्तिकेऽपि भावितमेव ॥ ४ उक्ताः पक्षादयः ॥
सह पक्षेण विषयभूतेन हेतुदृष्टान्ता इत्यर्थः । एषां वचनानि । एपामिति पक्षोपलक्षितानां हेतुदृष्टान्तानाम् । वचनानि ये वाचकाः शब्दाः । किम् ? । परप्रत्यायनकाले मानिकप्रत्यायनकाले साधनम् । यथा प्रयोगतो ८ दर्शयति । यथा अनित्यः शब्दः इति पक्षवचनम् । कृतकत्वादिति पक्षधर्मवचनम् | यत् कृतकं तदनित्यं दृष्टं यथा घटादिरिति सपक्षानुगमवचनम् । यन्नित्यं तदकृतकं दृष्टं यथाकाशमिति व्यतिरेकवचनम् । इति निगदसिद्धम् । यावत् एतान्येव त्रयोऽवयवा १२ इत्युच्यन्ते । एतान्येव पक्षहेतुदृष्टान्तानां वचनानि । त्रय इति संख्या । अवयवा इत्युच्यन्ते । पूर्वाचार्याणां संज्ञान्तरमेतत् । यथोक्तं साधनमवयवाः ।।
1
उक्तं साधनम् । अधुना तदाभास उच्यते । तत्रापि पक्षादिवचनानि साधनमिति पक्षस्योपलक्षणत्वात्प्रथमं पक्ष उक्तः । इहापि पक्षाभास एवोच्यते १६ साधयितुमित्यादि । साधयितुमिष्टोऽपि पक्षादिविरुद्धः पक्षाभासः । सिसाधयिषया वाञ्छितः अपिशब्दात्प्रसिद्धो धर्मीत्यादि तदन्यलक्षणयुक्तोऽपि । किम् ? | प्रत्यक्षादिविरुद्धः । विरुध्यते स विरुद्धः । प्रत्यक्षादयो वक्ष्यमाणलक्षणास्तैविरुद्धो निराकृतः प्रत्यक्षादिविरुद्धः । किम् ? | पक्षाभासः । तस्यात्रो२० क्तलक्षणः पक्षः आभासनमाभासः आकारमात्रम् | पक्षस्येवाभासो यस्यासौ पक्षाभासः पक्षाकारमात्रम् । न तु सम्यक् पक्ष इत्यर्थः । तद्यथेत्युदाहरणोपन्यासार्थः । प्रत्यक्षविरुद्ध इत्यादि । प्रत्यक्षं वक्ष्यमाणलक्षणम् । इह पुनः प्रत्यक्षशब्देन तत्परिच्छिन्नो धर्मः परिगृह्यते शालिकुडवन्यायात् । २४ ततश्च प्रसिद्धधर्मशब्दलोषात् प्रत्यक्षप्रसिद्धधर्मविरुद्धः प्रत्यक्षविरुद्धः । एवमनुमानविरुद्धः आगमलोकस्ववचनविरुद्धाश्रेति भावनीयमिति
I