________________
(१८)
हरिभद्रसूरिकृता- [न्या. प्र.४० रणादीनां नवानामपि हेत्वाभासानां व्यावृत्तिः । आह । यदि सपक्ष एवास्ति ततश्च तयतिरेकेणान्यत्र पक्षेऽप्यभावात् धर्मत्वानुपपत्तिः । न
अनवधृतावधारणात् । पक्षधर्मत्वस्यावधारित्वात् । आह । यद्येवं विपक्ष ४ नास्ति एवेति तृतीयमवधारणं किमर्थम् ? । उच्यते । प्रयोगोपदर्शनार्थम् ।
उक्तं च । अन्वयन्यतिरेकयोरेकमपि रूपमुक्तं कथं नु नाम द्वितीयस्याक्षेपक स्यादिति । प्रभूतमत्र वक्तव्यं तत्तु नोच्यते । ग्रन्थविस्तरभयात् । गमनिकामात्रमेतत् । अनित्यादौ हेतुरित्यत्रादिग्रहणात् दुःखादिपरिग्रहः । इत्युक्तो ८ हेतुः॥ सांगतं दृष्टान्तमभिषित्सुराह । दृष्टान्त इत्यादि । दृष्टं तत्रार्थ अन्तं
नयतीति दृष्टान्तः । प्रमाणोपलब्धमेव विप्रतिपत्तौ संवेदननिष्ठो नयतीत्यर्थः । स च द्विविधः । द्वे विधे यस्य स द्विविधस्तदेव द्वैविध्यम् । दर्शयति
साधर्येण वैधयेण च । समानो धर्मो यस्यासौ सधर्मा सधर्मणो भावः १२ साधर्म्य तेन । विसदृशो धर्मो यस्यासौ विधर्मा विधर्मणो भावः वैधयं तेन ।
चशब्दः समुच्चये । तंत्र साधम्र्येण तावदिति । तावच्छब्दः क्रमार्थः । यत्रेति । अभिधेयहेतोरुक्तलक्षणस्य सपक्ष एवास्तित्वं ख्याप्यते । सपक्ष
उक्तलक्षणस्तस्मिंश्वास्तित्वं विद्यमानत्वं ख्याप्यते प्रतिपाद्यते वचनेन । तच्चे१६ दम् । यत्कृतकं तदनित्यं यथा घटादिः इति मुगमम् । अनेन साधन
दृष्टान्ताभासः । वैधयेणापि । यत्र साध्याभावे हेतोरभाव एव कथ्यते । यत्रेत्यभिधेये । साध्यं अनित्यत्वादि तस्याभावे हेतोः कृतकत्वादेः।
किम् ? । अभाव एव कथ्यते प्रतिपाद्यते वचनेन । तञ्चेदमुदाहरणं दर्शयति । २० यन्नित्यं तदकृतकं दृष्टं यथाकाशमिति सुगमम् । आह । न सौगताना
नित्यं नाम किंचिदस्ति । तदभावात् कथं वैधर्म्यदृष्टान्त इत्युच्यते ? । नित्यशब्देनाबानित्यत्वस्याभाव उच्यते । अत्रेति प्रयोगे दृष्टान्तवाक्ये
वा । किं नित्यशब्देन अनित्यत्वस्याभाव उच्यते ? । अनित्यो न भवतीति २४ नित्यः । अकृतकशब्देनापि कृतकत्वस्याभावः उच्यते । इति च वर्तते ।
कृतको न भवतीत्यकृतकः । न तु वस्तु समित्यमकृतकं वास्ति । अत्रैवो