________________
न्या.प्र. ०१) न्यायप्रवेशवृत्तिः
(१७) न्यम् । तेन समानोऽर्थः सपक्ष इति । समं तुल्यं मानमस्येति समानः । तुल्यमानपरिच्छेद्य इति भावना । अर्थो घटादिः । न तु वचनमात्रम् । समानः
पक्षः सपक्ष इति । अथवा उपचारवृच्या धर्मिणि साध्यत्वमधिक्रियते । ततश्च ४ साध्यस्य धर्मः साध्यधर्मः । शेषं पूर्ववत् । अनुपचरितं तु साध्यम् । धर्मविशिष्टो
धर्मीति भावार्यः ॥ सांप्रतं सपक्षस्यैव उदाहरणमुपदर्शयन्नाह । तद्यथा अ. नित्ये शब्दे साध्ये इत्यादि । तद्यथेत्युदाहरणोपन्यासार्थः । अनित्ये शब्दे
साध्ये किम् ? । घटादिरनित्यः पदार्थसंघातः सपक्षः । साध्यानित्यत्वसमान८ त्वात् ॥ अधुना विपक्षलक्षणप्रतिपादनायाह । विपक्षो यत्र साध्यं नास्ति । विसदृशः पक्षो विपक्षः । स कीगिति स्वरूपतो दर्शयति । यत्र यस्मिन्नर्थे । साधनीयं साध्यम् । नास्ति न विद्यते । इह च साध्यप्रतिबन्धत्वात्
साधनस्य तदपि नास्तीति गम्यते । उदाहरणं दर्शयति । यथा यनित्यमि१२ त्यादि । तत्र यनित्यमिति किमुक्तं भवति ? । यदनित्यं न भवति तदकृतकं
दृष्टमिति । तस्कृतकमपि न दृष्टम् यथाकाशामिति । तत्र हि साध्याभावात् साधनाभावः । सांप्रतं विचित्रत्वादवधारणविधेः विपक्षधर्मत्वादिषु तमुपदर्श
यबाद । तत्र कृतकत्वमित्यादि । तत्रेति पूर्ववत् । कृतकत्वं प्रयत्नान१६ न्तरीयकत्वं वा अनित्यादौ हेतुरिति योगः । तत्र क्रियते इति कृतकः ।
अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति । तद्भावः कृतकत्वम् । प्रयत्नान्तरीयकत्वं वा इति । प्रयत्नश्चेतनावतो ब्यापारा ।
तस्य प्रयत्नानन्तरं तत्र भावो जात इति वा प्रयत्नानन्तरीयः। स एव प्रय२. स्नानन्तरीयकः । सद्भावः प्रयत्नानन्तरीयकत्वम् । वाशब्दः चशब्दार्थः । स च
समुच्चये । द्वितीयहेत्वभिधानं विपक्षव्यावृत्तः । सपक्षकदेशत्तिरपि सम्पग्धेतुर्यथा । यमेवेति दर्शनार्थत्वाददुष्टमिति । अयं च हेतुः किं पक्षधर्म एव न तु
पक्षस्यैव धर्मः । अयोगव्यवच्छेदमात्रफलत्वादवधारणस्य । यथा चैत्रो । २४ धनुर्धर एव । अनेन चासिद्धामा चतुर्णामसाधारणस्य च व्यावृत्तिः । तथा
सफल एवास्स्वन्ययोगव्यवच्छेदः यथा पार्थ एव धनुर्धरः । अनेन तु साधा