________________
(१६)
हरिभवभूरिकता- न्या. प्र. ०१ प्त्यातिव्याप्तिाम लक्षणदोषः प्रामोतीत्यतस्तभिवृत्यर्थमाह । प्रत्यक्षाधविरुद्ध इति वाक्यशेषः । प्रत्यक्षादिभिरविरुद्धः । आदिशब्दादनुक्तानुमानादिपरिग्रहः । इत्ययं वाक्यशेषो वाक्याध्याहारो द्रष्टव्य इति । उदाहरणो४ पदर्शनायाह तद्यथा । अनित्यः शब्दो नित्यो वेति । तद्ययेत्युदाहरणोपन्यासार्थम् । तत्र बौद्धादेरनित्यः शब्दो वैयाकरणादेर्नित्य इति । उक्तः सोदाहरणः पक्षः । सांप्रतं हेतुमभिषित्सुराह हेतुस्विरूपः । तत्र हिनोति गमयति जिज्ञासितधर्मविशिष्शनानिति हेतुः । स च त्रिरूपः । ८ त्रीण रूपाणि यस्यासौ त्रिरूपः त्रिस्वभाव इत्यर्थः । एकस्य वस्तुनो
नानात्वमपश्यन् पृच्छक आह किं पुनरूप्यम् । किमिति परिप्रश्ने । पुनरिति वितर्के । त्रिरूपस्य भावस्वैरूण्यम् । एवं पृच्छकेन पृष्टः समाहा
चार्यः पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे चासत्त्वमेव । अस्य गमनिका । १२ उक्तलक्षणः पक्षस्तस्य धर्मः पक्षधर्मस्तद्भावः पक्षधर्मत्वम् । पक्षशब्देन चात्र के
वलो धम्र्येवाऽभिधीयते । अवयवे समुदायोपचारात् । इदमक रूपम् । तथा सपक्षे सत्त्वम् । सपक्षो वक्ष्यमाणलक्षणः । तस्मिन्सत्त्वमस्तित्वं सामान्येन भाष इत्यर्थः । इदं द्वितीयं रूपम् । तथा विपक्षे चासत्त्वमिति तृतीयं रूपम् । विपक्षो वक्ष्यमाणलक्षणस्तस्मिन्पुनरसत्त्वमेवाविद्यमानतैव । चशब्दः पुनःशब्दार्थः । स च विशेषार्थ इति दर्शितमेव । आह इहेवावधारणेऽभिधानं किमर्थम् । उच्यते । अत्रैवैकान्तासत्त्वप्रतिपादनार्थम् । सपक्षे त्वेकदेशेऽपि सत्त्वमदुष्टमेवेति । तथा च सत्येकान्ततो विपक्षव्याहत्ताः सपक्षकदेशव्यापिनोऽपि प्रयत्नानन्तरीयकस्वादयः सम्यग्घेतव एवेत्यावेदितं भवति ॥ सपक्षे सवमित्यादि यदुक्तं तत्र सपक्षविपक्षयोः स्वरूपमजानानो विनेयः पृच्छति । कः पुनः सपक्षः को वा विपक्ष इति । अयं तु प्रश्नो निगदसिद्ध एव । निर्वचनं त्विदं साध्यध
मत्यादि । अस्य गमनिका । इहोपचारवृत्त्या धर्मे साध्यत्वमधिकृत्योच्यते । २४ साध्यश्वासौ धर्मश्च साध्यधर्मः । अनित्यत्वादिः । समानः सशस्तस्य भावः
सामान्यं तुल्यता । साध्यधर्मस्य साध्यधर्मेण वा सामान्यं साध्यधर्मसामा
HTHHHHOTHHTELH