________________
न्या. प्र. पृ० १]
न्यायप्रवेशवृत्तिः
( १५ )
|
साध्यत्वेनेप्सितः । तत्र प्रसिद्धं वादिप्रतिवादिभ्यां प्रमाणबलेन प्रतिपन्नम् । विशिष्यतेऽनेनेति विशेषणम् । तेन विशिष्टः प्रसिद्धविशेषणविशिष्टः । तद्भावः प्रसिद्धविशेषणविशिष्टता । तथा प्रसिद्धविशेषणविशिष्टतया हेतुभूतया प्रसिद्धः । ४ अत्राह । इह धर्मिणस्तावत्प्रसिद्धता युक्ता विशेषणस्य स्वनित्यत्वादेर्न युज्यते । साध्यत्वात् । अन्यथा विवादाभावेन साधनप्रयोगानुपपत्तेः । नैतदेवम् । सम्यगर्थानवबोधात् । इह प्रसिद्धता विशेषणस्य न तस्मिन्नेव धर्मिणि समाश्रीयते किंतु धर्म्यन्तरे घटादौ । ततश्च यथोक्तदोषानुपपत्तिः । तथा स्वयमित्यनेनाभ्युपगम८ सिद्धान्तपरिग्रहः ॥ साध्यत्वेनेप्सित इति । साधनीयः साधयितव्यः साधनमर्हतीति वा साध्यः । तस्य भावः साध्यत्वम् । तेन साध्यत्वेन | ईप्सितः अभिमतः इष्ट इच्छया व्याप्त इत्यर्थः । इह च विशेषणस्य व्यवच्छेदकत्वात्प्रसिद्धो धर्मीत्यनेनाप्रसिद्धविशेषणस्य पक्षाभासस्य व्यवच्छेदो द्रष्टव्यः । प्रसिद्धविशे१२ पणविशिष्टतयेत्यनेन स्वप्रसिद्धविशेषणस्य उभयेन चाप्रसिद्धोभयस्य स्वयमित्यनेन चाभ्युपगमसिद्धान्तपरिग्रहेण सर्वतन्त्रप्रतितन्त्राधिकरणसिद्धान्तानां व्यवच्छेदो द्रष्टव्यः । इह तु शास्त्रनिरपेक्षवादिनोलोकप्रसिद्धयोर्धर्मधर्मिणोः परिग्रहवचनमभ्युपगमसिद्धान्तस्तं स्वयमित्यनेनाह । ततश्च यदपि स्वयमिति १६ वादिना यस्ता साधनमाह । एतेन यद्यपि कचिच्छास्त्रे स्थितः साधनमाह तच्छाखकारेण तस्मिन्धर्मिण्यनेकधर्माभ्युपगमेऽपि यस्तदाऽनेन वादिना धर्मः साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवतीति यदुक्तं वादिसुरुपेन तदपि संगतमेव । साध्यत्वंनेति साध्यत्वेनैव न साधन२० त्वेनापि । अनेन च साध्यहेतुदृष्टान्ताभासानां पक्षत्वव्युदासः । ईप्सित इत्यनेन च नोक्तमात्रस्यैवेत्युक्तं भवति । इच्छयाऽपि व्याप्तः पक्षः । इत्येतच्च परार्थाश्चक्षुरादय इत्यत्र दर्शयिष्यामः । इत्यनेन धर्मविशिष्ट धमों पक्ष इत्यावेदितं भवति । ततश्च न धर्ममात्रं न धर्मी केवलः न स्वतन्त्रमुभयं न च तयोः २४ संबन्धः किंतु धर्मधर्मिणोविशेषणविशेष्यभाव इति भावार्थ: ॥ इह चोक्त लक्षयोगे सत्यप्यश्रावणः शब्द इत्येवमादीनामपि मत्यक्षादिविरुद्धानां पक्षत्वमा