________________
(१४)
हरिभवसूरिकृता-- न्या. प्र. पृ० १ व्यञ्जकम् । साधनस्य द्वविध्यदर्शनात् । तत्र कारकं बीजायरादेः । व्यञ्जकं प्रदीपादि तमसि घटादीनाम् । अतो व्यञ्जकत्वप्रतिपादनायाह । पक्षहेतु
दृष्टान्तवचनैर्हि प्रानिकानामप्रतीतोऽर्थः प्रतिपाद्यते इति ॥ अस्य ४ गमनिका । पच्यते इति पक्षः । हिनोतीति हेतुः । हि गतौ । सर्वे गत्यर्थाः ज्ञानार्थाः । तथा दृष्टमर्थमन्तं नयतीति दृष्टान्तः । स च द्विधा साधर्म्यवैधर्म्यभेदात् । ततश्चैवं समासः। दृष्टान्तश्च दृष्टान्तश्च दृष्टान्तौ । हेतुश्च दृष्टान्तौ च हेतुदृष्टान्ताः । पक्षस्य हेतुदृष्टान्ताः पक्षहेतुदृष्टान्ताः । तेषां वचनानि पक्ष८ हेतुदृष्टान्तवचनानि । तैः पक्षहेतुदृष्टान्तवचनैः । हिशब्दो यस्मादर्थे । प्रश्ने नियुक्ताः प्राश्निका विद्वांसः । स्वसमयपरसमयवेदिनः ! उक्तं च
स्वसमयपरसमयज्ञाः कुलजाः पक्षद्वयस्थिताः क्षमिणः ।
वादपथेष्वभियुक्तास्तुलासमाः प्राश्निकाः प्रोक्ताः ॥ १२ तेषां प्राश्निकानामप्रतीतोऽनवगतोऽनवयुद्धोऽर्थः प्रतिपाद्यते । आइ ।
ये यथोक्ताः प्राश्निकाः कथं तेषां कश्चिदप्रतीतोऽर्थ इति । उच्यते । न तत्परिज्ञानमयीकृत्याप्रतीतः । किंतु वादिप्रतिवादिपक्षपरिग्रहसमर्थनासहस्तदन्तर्गत
इत्यतोऽप्रतीतोऽर्थः प्रतिपाद्यते । ननु चात्र चतुर्थ्या क्रियया चेति वक्तव्य१६ लक्षणया भवितव्यं तत्किमर्थ षष्ठयत्रोच्यते । कारकाणामविवक्षा शेष इति
शेपलक्षणा षष्ठी । केषां प्रतिपाद्यते । सामर्थ्याधेषामप्रतीतः अन्येषामश्रुतत्वातेषामेव प्रतिपाद्यते । इतिशब्दस्तस्मादर्थे । यस्मादेवं तस्माद्वयञ्जकमिदं साध
नमप्रतीतार्थप्रतिपादकत्वात् प्रदीपवत् । व्यतिरेके वीजादि ॥ तत्र पक्षादिवच२० नानि साधनम् इत्युक्तम् ॥ अधुना यथोद्देशं निर्देश इतिन्यायमाश्रित्य
पक्षलक्षणप्रतिपादनायाह । तत्र पक्षः प्रसिद्धो धर्मी । अस्य गमनिका । तत्रशब्दो निर्धारणार्थः । निर्धारणं च प्रसिद्धधर्मित्वादिगुणतोऽवसेयमिति । पक्ष
इति लक्ष्यनिर्देशः । धर्मीति । धर्माः कृतकत्वादयस्तेऽस्य विद्यन्ते इति धर्मी २४ शब्दादिः । कथं प्रसिद्ध इत्यत आह । प्रसिद्धविशेषणविशिष्टतया स्वयं