________________
न्या. प्र. पृ० १]
न्यायप्रवेशवृत्तिः
(१३.)
यते इति । गोमण्डलादिव गौः क्षीरसंपन्नत्वेन गुणेन ॥ पच्यते इति पक्षः । पच व्यक्तीकरणे । पच्यते व्यक्तीक्रियते योऽर्थः स पक्षः । साध्य इत्यर्थः । स च धर्मविशिष्टो धर्मी । पक्ष आदिर्येषां ते पक्षादयः । अयं बहु४ त्रीहिः समासः । अयं च तद्गुणसंविज्ञानश्च भवति । तत्र तद्गुणसंविज्ञानो यथा लम्बकर्ण इत्यादि । लम्बौ कर्णौ यस्यासौ लम्बकर्णः । लम्वकर्णत्वं च तस्यैव गुण इत्यर्थः । अतगुणसंविज्ञानो यथा पर्वतादिकं क्षेत्रमित्यादि । पर्वत आदिर्यस्य तत्पर्वतादिकं क्षेत्रम् । न पर्वतः क्षेत्रगुणः । किं तर्हि । उप८ लक्षणमात्रमिति भावना । अयमिह तद्गुणसंविज्ञानो बहुव्रीहिर्वेदितव्यः । यथा पर्वतादिकं क्षेत्रं नद्यादिकं वनमिति । न पुनर्यथा लम्बकर्णः ब्राह्मणादयो वर्णा इति । पक्षादिवचनानि साधनमित्यादिशब्द उपलक्षणार्थः । अस्य चायमर्थः । आदीयतेऽस्मादित्यादिः यथा पर्वतादिकं क्षेत्रमित्यादौ । १२ न पुनरादीयते इत्यादिः यथा ब्राह्मणादयो वर्णा इत्यादाविति । ततः सुस्थितमिदं पक्षः आदिर्येषां ते पक्षादयः । ते च पक्षोपलक्षिता हेतुदृष्टान्ताः । तेषां वचनान्युक्तयः ॥ किं साधनमिति । इह च यदा साध्यतेऽनेनेति साधनं करणाभिधानार्थः साधनशब्दस्तदा पक्षोपलक्षितानि हेतुत्वादिवचनानि साध१६ नम् । यतस्तैः करणभूतैविवक्षितोऽर्थः परसंताने प्रतिपाद्यते । यदा पुनर्भावसाधनः सिद्धिः साधनमिति तदा पक्षादिवचनजन्यं प्रतिपाद्यगतं ज्ञानमेव साधनम् । तत्फलत्वात्पक्षादिवचनानाम् । कार्ये कारणोपचारात् । यथेदं मे शरीरं पौराणं कर्मेति । यदा तु कर्तृसाधनः साधयतीति २० साधनं तदा पक्षादिवचनान्येव कर्तृत्वेन विवक्ष्यन्ते प्रतिपाद्यसंताने ज्ञानोत्पादकत्वात् इति । तदेवं पक्षादिवचनानि साधनम् । तद्यथा वृक्षा वनं हस्त्यादयः सेना || आह । एकवचननिर्देशः किमर्थमुच्यते । समुदितानामेत्र पक्षादिवचनानां साधनत्वख्यापनार्थम् । उक्तं च दिवागाचार्येण साधन२४ मिति चैकवचननिर्देशः समस्तसाधनत्वख्यापनार्थः । इत्यलं विस्तरेण ॥
एवं तावत्सामान्येन साधनमुक्तम् । इदं च न ज्ञायते किं कारकमुत