________________
(१२)
हरिभद्रसूरिकृता-- [न्या प्र. पृ०१ . लक्षणा षष्ठी । आह-यद्येवं परसंवित्यात्मसंवित्योः प्रकरणार्यपरिमानेन
व्यवहितत्वादप्रयोजनत्वमिति । न । व्यवहितस्यैव विवक्षितत्वात् । किमर्थ व्यवहितमेव विवक्षितमिति । उच्यते । उत्तरोत्तरप्रयोजनानां प्राधान्यख्यापनार्थम् । ४ तथा चेहानुत्तरप्रयोजनं परमगतिप्राप्तिरेव । तथा चोक्तम् ।
सम्यङ्यायपरिज्ञानाद्धेयोपादेयवेदिनः ।
उपादेयमुपादाय गच्छन्ति परमां गतिम् ।। आह-यवमिहानुत्तरमेवेदं कस्मानोपन्यस्तमिति । उच्यते । अध्युत्पन ८ विनेयगणमधिकृत्य तत्प्रथमतयैव तस्याप्रयोजकत्वात् ॥ अपरस्त्वाह । इदमिह श्रोतणां प्रयोजनमुक्तं कर्तुस्तर्हि किं प्रयोजनमिति वाच्यम् । उच्यते । तस्याप्यनन्तरपरंपरभेदभिन्नमिदमेव । अनन्तरं तावत्सत्त्वानुग्रहः । परंपरं तु परमगतिप्राप्तिरेव । तथा चोक्तम् ।
सम्यन्यायोपदेशेन यः सचानामनुग्रहम् ।
करोति न्यायबाह्याना स प्रामोत्यचिराच्छिवम् ॥ अलं विस्तरेण ॥
इति शास्त्रसंग्रहः । इतिशब्दः परिसमातिवाचकः । एतावा१६ नेव । शिष्यतेऽनेन तत्त्वमिति शास्त्रमधिकृतमेव । अर्य( 1 y)त इत्यर्थः ।
शास्त्रस्यार्थः शास्त्रार्थः । तस्य संग्रहः शास्त्रार्थसंग्रहः । संग्रहणं संग्रहः । एतावानेवाधिकृतशास्त्रार्थसंक्षेप इत्यर्थः । शास्त्रतो चास्याल्पग्रन्थस्यापि विश्व
व्यापकन्यायानुशासनादिति वृद्धवादः ॥ २० तत्र यथोद्देशस्तथा निर्देश इति कृत्वा साधनस्वरूपावधारणा ... याह ॥ तत्र पक्षादिवचनानि साधनम् । तत्रशब्दो निर्धारणार्थः ।
तत्र तेषु साधनादिषु साधनं तावनिर्धार्यते इति । निर्धारणं च जातिगुणक्रियानिमित्तमिति । अत्र गुणनिमित्तं साधनत्वेन गुणेन निर्धा