________________
न्या. प्र. पृ०१] न्यायप्रवेशवृत्तिः
(११) इत्यत्र अक्षमिन्द्रियं ततश्च प्रतिगतमक्ष प्रत्यक्ष कार्यत्वेनेन्द्रियं प्रति गतमित्यर्थः । इदं च वक्ष्यति प्रत्यक्ष कल्पनापोढम् इत्यादि । तथा मीयते अनेनेति मानं परिच्छेद्यत इत्यर्थः । अनुशब्दः ४ पश्चादर्थे । पश्चान्मानं अनुमानम् । पक्षधर्मग्रहणसंबन्धस्मरणपू.
कमित्यर्थः । वक्ष्यति च त्रिरूपाल्लिङ्गाल्लिङ्गिनि ज्ञानमनुमानम् । चशब्दः पूर्ववत् । साभासम् इत्यादि । वक्ष्यति च कल्पनाज्ञानमर्थान्तरे प्रत्य
शाभासम् इत्यादि । तथा हेत्वाभासपूर्वकं ज्ञानमनुमानाभासम् इत्यादि च । तु ८ शब्दस्त्वेवकारार्थः । स चावधारण इति दर्शयिष्यामः ॥ आत्मसंविदे इति । अततीत्यात्मा जीवः । संवेदनं संचित् । आत्मनः संचित् आत्मसंवित् । तस्यै आत्मसंविदे आत्मावबोधाय । आत्मा चेह चित्तचैत्तसंतानरूपः परिगृह्यते
न तु परपरिकल्पितो नित्यत्वादिधर्मा । तत्प्रतिपादकममाणाभावात् । इति १२ पदार्थः ॥ वाक्यार्थस्त्वयम् । प्रत्यक्षानुमाने एव साभासे आत्मसंविदे आत्माव
बोधाय न साधनदूषणे आत्मसंविफलत्वात् तयोः। आह ननु साधनमपि वस्तुतोऽनुमानमेव ततश्चानुमानमित्यायुक्त साधनाभिधानं न युज्यते अ
स्मिन्वा प्रागुक्ते अनुमानाभिधानमिति । नैष दोषः । स्वार्थपरार्थभेदेनाभि१६ धानात् । तत्र साधनं परार्थमनुमानमिदं पुनः स्वार्थम् । अपरस्त्वाह । आदौ
साधनदूपणाभिधानमयुक्तं प्रत्यक्षानुमानपुरःसरत्वात्तत्पयोगस्य । उच्यते । सत्यपि तत्पुरःसरत्वे शाखारम्भस्य परसंवित्प्रधानत्वात्साधनदूषणयो
रपि तत्फलत्वात्प्रत्यासत्तेरादावुपन्यासः । परार्थनिवन्धनः स्वार्थ इति न्याय२० प्रदर्शनार्थमन्ये ।।
कृतं प्रसङ्गेन । प्रकृतं प्रस्तुमः ॥ इह च साधनादयोऽष्टौ पदार्या: अभिधेयतया उक्ताः । परसंबित्त्यात्मसंवित्योरत्र प्रयोजनत्वेन संबन्धश्च
सामर्थ्यगम्य एव । स च कार्यकारणलक्षणः । कारणं वचनरूपापन२४ प्रकरणमेव । कार्य तु प्रकरणार्थपरिज्ञानम् । तथाहीदमस्य कार्यमिति संबन्ध