________________
(१०)
हरिभद्रसूरिकृता
[न्या. प्र पृ०१ शाखप्रकरणादीनां यथार्थावगमः कुतः । व्याख्यां विहाय तत्त्वज्ञैः सा चोक्ता पदवाक्ययोः ।।
तत्रापि पदसमुदायात्मकत्वाद्वाक्यस्यादौ पदार्थगमनिका न्याय्या । ४ सा च पदविभागपूर्वत्यतः पदविभागः । साधनम् दूषणम् च एव
साभासम् परसंविदे प्रत्यक्षम् अनुमानम् च साभासम् तु आत्मसंविदे इति पदानि ॥ अधुना पदार्थ उच्यते । साध्यते अनेनेति सिद्धिर्वा साधयतीति वा साधनम् । तच्च पक्षादिवचनजातम् । वक्ष्यति च । पक्षादि८ वचनानि साधनम् । विषयश्चास्य धर्मविशिष्टो धर्मी । तथा दूष्यतेऽनेन दूषय
तीति वा दूषणम् । तच्च साधनदोषोद्भावनं वचनजातमेव । वक्ष्यति च साधनदोषोद्भावनानि दूषणानि । विषयश्चास्य साधनाभासः न सम्यक्सा
धनम् । तस्य दूषयितुमशक्यत्वात् । ननु वक्ष्यति साधनदोषोद्भावनानि दूष१२ णानीति तदेतत्कथम् । उच्यते । साधनाभास एव किंचित्साम्येन साध
नोपचाराददोषः इत्येतच तत्रैव निर्लोठयिष्यामः । चशब्दः समुच्चये । एवकारोऽवधारणे । स चान्ययोगव्यवच्छेदार्थ इत्येतद्दर्शयिष्यामः । तथा
आभासनमाभासः । सह आभासेन वर्तते साभासम् । साभासशब्दः प्रत्ये१६ कमभिसंवध्यते । साधनं साभासं दूषणं साभासम् । तत्र साधनाभासं पक्षाभासादि ।
वक्ष्यति च । साधयितुमिष्टोऽपि प्रत्यक्षादिविरुद्धः पक्षाभास इत्यादि । दूषणाभासं चाभूतसाधनदोषोद्भावनानि । वक्ष्यति च अभूतसाधनदोषोद्भावनानि दूषणामासानीति ॥ परसंविदे इत्यत्र परे प्राश्निकाः संवेदनं संविद् अवबोध इत्यर्थः । परेषां संवित् परसंचित् तस्यै परसंविदे परावबोधाय । इयं तादर्थे चतुर्थी । यथा यूपाय दारुः । इति पदार्थः ॥ वाक्यार्यस्त्वयम् । साधनदूषणे एवं साभासे परसंविदे परावयोपाय
न प्रत्यक्षानुमाने । परसंविफलत्वात्तयोः । यथा पार्थ एव धनुर्धरः २४ पार्थे धनुर्धारयति सति कोज्यो धनुर्धारयति इति ॥ प्रत्यक्षम्
२०