________________
हरिभद्रसूरिकृता
न्यायप्रवेशवृत्तिः ।
श्रीसर्वज्ञाय नमः ॥
सम्यग्ज्ञानस्य वक्तारं प्रणिपत्य जिनेश्वरम् | न्यायप्रवेशकन्याख्यां स्फुटार्थी रचयाम्यहम् || रचितामपि सत्मज्ञैर्विस्तरेण समासतः । असत्मज्ञोऽपि संक्षिप्तरुचिः सत्त्वानुकम्पया ॥
तत्र च -
साधनं दूषणं चैव साभासं परसंविदे | प्रत्यक्षमनुमानं च साभासं त्वात्मसंविदे |
१२ इत्यादावेव श्लोकः । आहास्य किमादावुपन्यास इति । उच्यते । इह प्रेक्षापूर्वकारिणः प्रयोजनादिशून्ये न क्वचित्प्रवर्तन्त इत्यतोऽधिकृतशास्त्रस्य प्रयोजनादिप्रदर्शनेन प्रेक्षावतां प्रत्यर्थमिति । शास्त्रार्थकथनकालोपस्थितपर संभाव्यमानानुपन्य। सहेतुनिराकरणार्थं च न्यायप्रवेशकाख्यं शास्त्रमारभ्यते इत्युक्ते संभवत्येववादी परः - नारब्धव्यमिदं प्रयोजनरहितत्वात् १६ उन्मत्तकवाक्यवत् । तथा निरभिधेयत्वात् काकदन्तपरीक्षावत् । तथा असंच - दत्वात् दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डं सर की टिकेत्यादिवाक्यवत् 1 तदमीषां हेतूनामसिद्धतोद्भावयिषया प्रयोजनादिप्रतिपादनार्थमादौ श्लोकोपन्यास । अयं चाभिधेयप्रयोजने एव दर्शयति २० साक्षात् संबन्धं तु सामर्थ्येन । यथा चैतदेवं तथा सुखप्रतिपत्त्यर्थमेवमेव लेशतो व्याख्याय दर्शयिष्यामः ॥ व्याख्या च पदवाक्यसंगतेति । उक्तं च-