________________
कर्मणः।साधनधर्मोऽमूर्तत्वं न व्यावृत्तम् । अमूर्तत्वात्कर्मणः॥ उभयाव्यावत्तः । आकाशवदिति । तत्सत्त्ववादिनं प्रति । ततो नित्यत्वममूर्तत्वं च न व्यावृत्तम् । नित्य४ त्वादमूर्तत्वाचाकाशस्यति ॥ अव्यतिरेको यत्र विना साध्यसाधननिवृत्त्या तद्विपक्षमावो निदर्श्यते । यथा घटे मूर्तत्वमनित्यत्वं च दृष्टमिति ॥ "विपरीतव्यतिरेको यथा । यदनित्यं तन्मूर्त दृष्टमिति वक्तव्ये यन्मूर्त तदनित्यं ८ दृष्टमिति ब्रवीति ॥
एषां पक्षहेतुदृष्टान्ताभासानां वचनानि साधनाभासम् ॥
आत्मप्रत्यायनार्थ तु प्रत्यक्षमनुमानं च दे एव १२ प्रमाणे ॥ तंत्र प्रत्यक्ष कल्पनापोढं यज्ज्ञानमर्थे रूपादौ
नामजात्यादिकल्पनारहितम् । तदक्षमक्षं प्रति वर्तत इति प्रत्यक्षम् ॥ अनुमानं लिङ्गादर्थदर्शनम् । “लिङ्गं पुननिरूपमुक्तम् । तस्माद्यदनुमेयेऽर्थे ज्ञानमुत्पद्यतेऽमिरत्र १६ अनित्यः शब्द इति वा तदनुमानम् ॥ उभयत्र तदेव
ज्ञानं फलमधिगमरूपत्वात् । संव्यापारवल्याते: प्रमाणत्वमिति ॥ कल्पनाज्ञानमर्थान्तरे प्रत्यक्षाभासम् । यज्ज्ञानं घटः पट इति वा विकल्पयतः समुत्पद्यते २० तदर्थस्वलक्षणविषयत्वात्प्रत्यक्षाभासम् ॥ हेलाभास
पूर्वकं ज्ञानमनुमानाभासम् । हेत्वाभासो हि बहुप्रकार उक्तः । तस्माद्यदनुमेयेऽर्थे ज्ञानमव्युत्पन्नस्य भवति तद. . नुमानाभासम्॥