________________
( ६ )
साधनधर्मासिद्धो यथा । नित्यः शब्दोऽमूर्तत्वात् परमाणुबत् । यदमूर्तं तन्नित्यं दृष्टं यथा परमाणुः । परमाणौ हि साध्यं नित्यत्वमस्ति साधनधर्मोऽमूर्तत्वं नास्ति मूर्तत्वा४ परमाणूनामिति ॥ साध्यधर्मासिद्धो यथा । नित्यः शब्दोमूर्तत्वाद् बुद्धिवत् । यदमूर्तं तन्नित्यं दृष्टं यथा बुद्धिः ॥ बुद्धौ हि साधनधर्मोऽमूर्तत्वमस्ति साध्यधर्मो नित्यत्वं नास्ति । अनित्यत्वाद् बुद्धेरिति ॥ उभयासिद्धो ८ द्विविधः । सन्नसंश्रेति । तत्र घटवदिति विद्यमानोभयासिद्धः । अनित्यत्वान्मूर्तत्वाच्च घटस्य । आकाशवदित्यविद्यमानोभयासिद्धः । तदसत्त्ववादिनं प्रति ॥ अनन्वयो यत्र विनान्वयेन साध्यसाधनयोः सहभावः प्रदर्श्यते । यथा १२ घंटे कृतकत्वमनित्यत्वं च दृष्टमिति ॥ “विपरीतान्वयो यथा । यत् कृतकं तदनित्यं दृष्टमिति वक्तव्ये यदनित्यं तत्कृतकं दृष्टमिति ब्रवीति ॥ " वैधम्र्येणापि दृष्टान्ताभासः पञ्चप्रकारः । तद्यथा । साध्याव्यावृत्तः १, साधनाव्या१६ वृत्तः २ उभयाव्यावृत्तः ३, अव्यतिरेकः ४, विपरीतव्यतिरेकश्चेति ५ ॥ तत्र साध्याव्यावृत्तो यथा । नित्यः शब्दोऽमूर्तित्वात् परमाणुवत् । यदनित्यं तन्मूर्तं दृष्टं यथा परमाणुः । परमाणोर्हि साधनधर्मोऽमूर्तत्वं व्यावृत्तं मूर्त२० त्वात्परमाणूनामिति । साध्यधर्मो नित्यत्वं न व्यावृत्तं नित्यत्वात्परमाणूनामिति ॥ साधनाव्यावृत्तो यथा । कर्मवदिति । कर्मणः साध्यं नित्यत्वं व्यावृत्तम् । अनित्यत्वा