SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ गत्वात शब्दत्ववदिति । उभयोः संशयहेतुत्वाद् दावण्येतावेकोऽनैकान्तिकः समुदितावेव ॥ "विरुश्चतुःप्रकारः । तद्यथा । धर्मस्वरूपविपरीतसाधनः १, धर्मविशेषविपरीत४ साधनः २, धर्मिस्वरूपविपरीतसाधनः ३, धर्मिविशेषविप रीतसाधनश्चेति ४ ॥ तंत्र धर्मस्वरूपविपरतिसाधनो यथा । नित्यः शब्दः कृतकत्वात् प्रयत्नानन्तरीयकत्वादेति । अयं हेतुर्विपक्ष एव भावाविरुद्धः ॥ धर्मविशेषविपरीतसाधनो ८ यथा । परार्थाश्चक्षुरादयः संघातत्वाच्छयनासनाद्यङ्गविशेषवदिति । अयं हेतुर्यथा पारायं चक्षुरादीनां साधयति तथा संहतत्वमपि परस्यात्मनः साधयति । उभय त्राव्यभिचारात् ॥ धर्मिस्वरूपविपरीतसाधनो यथा । न १२ द्रव्यं न कर्म न गुणो भावः एकद्रव्यवत्त्वात् गुणकर्मसु च भावात् सामान्यविशेषवदिति । अयं हि हेतुर्यथा द्रव्यादिप्रतिषेधं भावस्य साधयति तथा भावस्याभावत्व मपि साधयति । उभयत्राव्यभिचारात् ॥ धर्मिविशेष१६ विपरीतसाधनो यथा । अयमेव हेतुरस्मिन्नेव पूर्वपक्षेऽस्यैव धर्मिणो यो विशेषः सत्प्रत्ययकर्तृत्वं नाम तद्विपरीतमसत्प्रत्ययकर्तृत्वमपि साधयति । उभयत्राव्यभिचारात् ॥ दृष्टान्ताभासो दिविधः। साधम्र्येण वैधयेण च ॥ तंत्र २० साधपेण तावद् दृष्टान्ताभासः पञ्चप्रकारः । तद्यथा । साधनधर्मासिद्धः १, साध्यधर्मासिद्धः २, उभयधर्मासिनः ३, अनन्वयः ४, विपरीतान्वयश्चेति ५ ॥ तंत्र
SR No.008423
Book TitleNyaya Pravesha Part 1
Original Sutra AuthorN/A
AuthorAnandshankar B Dhruva
PublisherOriental Research Institute Vadodra
Publication Year1968
Total Pages228
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy