________________
(१)
पक्षाभ्यां व्यावृत्तत्वान्नित्यानित्यविनिर्मुक्तस्य चान्यस्यासंभवात्संशयहेतुः । किंभूतस्यास्य श्रावणत्वमिति ॥ सैपक्ष कदेशवृत्तिर्विपक्षव्यापी यथा । अप्रयत्नानन्तरीयकः शब्दो४ऽनित्यत्वात् । अप्रयत्नानन्तरीयकः पक्षः । अस्य विद्युदा. काशादिः सपक्षः । तत्रैकदेशे विद्युदादौ विद्यतेऽनित्यत्वं नाकाशादौ । अप्रयत्नानन्तरीयकः पक्षः । अस्य घटादिर्विपक्षः। तत्र सर्वत्र घटादौ विद्यतेऽनित्यत्वम् । तस्मादेतदपि ८ विद्युद्धटसाधयेणानैकान्तिकम् । किं घटवदनित्यत्वात्सयत्नानन्तरीयकः शब्दः आहोस्विद्विद्युदादिवदनित्यत्वादप्रयत्नानन्तरीयक इति ॥ "विपक्षैकदेशवृत्तिः सपक्षव्यापी यथा । प्रयत्नानन्तरीयकः शब्दोऽनित्यत्वात् । प्रयलानन्त१२ रीयकः पक्षः । अस्य घटादिः सपक्षः । तत्र सर्वत्र
घटादौ विद्यतेऽनित्यत्वम् । प्रयत्नानन्तरीयकः पक्षः । अस्य विद्युदाकाशादिर्विपक्षः । तत्रैकदेशे विद्युदादौ विद्यतेऽनित्यत्वं नाकाशादौ । तस्मादेतदपि विद्युद्धटसाधम्र्येण १६ पूर्ववदनैकान्तिकम् ॥ उभयपक्षकदेशवृत्तिर्यथा । नित्यः
शब्दोऽमूर्तत्वादिति । नित्यः पक्षः। अस्याकाशपरमाण्वादिः सपक्षः। तत्रैकदेश आकाशादौ विद्यतेऽमूर्तत्वं न परमाणौ। नित्यः पक्षः । अस्य घटसुखादिर्विपक्षः । तत्रैकदेशे सुखादौ २० विद्यतेऽमूर्तत्वं न घटादौ । तस्मादेतदपि सुखाकाशसाधर्म्यणानेकान्तिकम् ॥ "विरुद्धाव्यभिचारी यथा । अनित्यः शब्दः कृतकत्वाद् घटवत् । नित्यः शब्दः श्राव