________________
मानतुङ्गशास्त्रं
मूलम्-अथो वक्ष्ये मणे स्थानं, भेदातिशयलक्षणम् ॥ गर्भोत्पत्ति महादोषघातकं गृहयोगिनाम् ॥१॥
टीका-अथो अधुना इत्यव्ययं मनालार्थे बोध्यम् अहं मणेः स्थानं स्थिति प्रदेशम्. भेदातिशय लक्षणम्भेदो वैधयं विभिन्नस्वभावोवा, अतिशयःप्रभावः महिमेतियावत्, लक्षणं स्वरूपम् , आत्मस्वभावहति यावत्, भेदश्वातिशयश्चलक्षणं चेत्येतेषां समाहारस्तत्, वक्ष्ये कथयिष्यामि यन्मणेस्थानं भेदातिशय लक्षणश्च गृहयोगिनां गृहे योगः सम्बन्धो येषान्ते तथा तेषाम, गृहस्थानॉमित्यर्थः गौत्पत्ति महादोष घातकम्-गर्भश्चोत्पत्तिश्चेति गर्भोत्पत्ती तयोर्ये महादोषस्तेषां घातकम् विनाशकमस्ति, एतन्मणेःस्थानं तद् भेदातिशय लक्षणश्च गृहस्थानां गर्भसम्बन्धिन उत्पत्ति सम्बन्धिनश्च महादोषान् विनिहन्तीतिभावः ॥१॥
भाषा टीका-(हृदयमें महल का विचार कर ) मैं मणि के स्थान (उप्तत्ति तथा उसके भेद, प्रभाव और लक्षण को कहता हूं कि जो मणिके स्थान, भेद, प्रभाव और लक्षण) गृहस्थों के गर्भ सम्बन्धी तथा उत्पत्ति
सम्बन्धी महादोषों को दूर करते है ॥१॥ આ અર્થ-માન તુમસુરી ગૃહ યાગિના જન્મ ઉત્પત્તિ આદિ મહાદોષોને નાશ કરનાર, ભેદ અતિશય લક્ષણયુક્ત, મણીનું સ્થાન કહું છું
१ मङ्गलानन्तरारम्य प्रश्नकात्स्त्येष्वथो अथ इत्यमरः ॥२ समाहार द्वन्द्वे टेकत्वम् ॥ ३ व्यधिकरण बहुव्रीहिः ॥ ४ सम्बन्ध सामान्ये षष्टी॥
.
नि