________________
काश्यपशिल्पेऽष्टाविंशः पटलः । सदेवाष्टाश्रमेदीयकंधरं शिखरं धनम् । शिरोष्टी [ च ] महानासियुक्तं तद्विष्णुकान्तकम् ।। ३५ ॥ सान्तरं प्रस्तरोपेतं कूटकोष्ठौ चतुश्चतुः । लम्बपञ्जरसंयुक्तं वृत्तशीर्पककंधरम् ।। ३६ ॥ दण्डं वाऽध्यर्धदण्डं वा द्विदण्डं वा त्रिदण्डकम् । कर्णकूटं तु कोष्ठानि निष्क्रान्तं परिकल्पयेत् ।। ३७ ॥ षडष्टनासिकोपेतं चत्वारि शिखरे वर ! एतद्विश्वकरान्यस्यादीश्वरस्य प्रियावहम् ॥ ३८ ॥ तदेव त्रिचतुर्भागे भागाधिक्यं यथाश्रकम् । तथाऽशी मकण्ठं चावेदिक तत्प्रकल्पयेत् ॥ १९ ॥ स्तूपित्र यसमायुक्तमेतन्मङ्गलमुच्यते । तदेवायतवृत्ताभं गान्धारामिति विद्यते ॥ ४० ॥ तारादर्धाधिकादर्थमायताभं समायं वा ।। द्वयश्रवृत्तमुपानादिकलितं वा तदेव हि ॥ ४१ ॥ समाश्रमायताओं वा वाह्य तः परिकल्पयेत् । वृत्तगर्भगृहोपेतं कूटकोष्ठम(क)संयुतम् ॥ ४२ ॥ वृत्ताभं कर्णकूटानां शीर्ष स्यात्परिकल्पयेत् । . कूटकोष्ठाल्पनीडाश्च समसूत्रैश्च कल्पयेत् ॥ ४३ ॥ नाम्ना मनोहरं रम्यं सर्स(व)देवाहकं परम् । उपानादिस्तूपिपर्यतं वृत्तं चेत्तु बहिबहिः ।। ४४ ॥ शेष प्रागिव कर्तव्यं शिवकान्तमिदं परम् । चतुरश्रमधिष्ठानं गर्भगेहं तथैव च ॥ अधिष्ठानोपरिष्टात्तु स्तूप्यन्त वर्तुलाकृति ! कूठकोष्ठादिसर्वाङ्गयुक्तं गर्भगृह भवेत् ।। चतुरश्रमधिष्ठानमायताश्रमथापि वा ॥ ४५ ॥ रसाथ शिखरं कण्ठं कूटकोष्ठादिसंयुक्त.म् ।। यथोचितं तु संकल्प्य नाना कूबरकान्तकम् ।। ४६ ॥ एवं तु द्वितलो(लं)योरयं भेदमष्टादश स्मृतम् । इष्टकाभिः शिलाभिर्वा होमादिस्तू पकान्तकम् ॥ ४७ ।।