________________
काश्यपशिल्पे विंशः पटलः ।
प्रत्यग्रमकरीबन्यप्रतिसिंहादिभूषितम् । एवं प्रस्तरवर्ग तु प्रोच्यते तद्विजोत्तम ॥ १६ ॥ इति काश्यपशिल्पे प्रस्तरलक्षणमेकोनविंशः पटलः ।
अथ विंशः पटलः ।
गलभूषणम् ।
अथ वक्ष्ये विशेषेण गलभूषणलक्षणम् । ऊध्वेभामोथ(गोच्च)तुङ्ग तु गलमानमुदाहृतम् ।। १ ॥ भातों(अर्थो)त्सेधांशमानं वा गलमानमुदाहृतम् । सदुञ्चत्रिचतुष्पच शेषं वा केदिकोदयम् ॥ २॥ शेषं गलोदयं ख्यातं तमशेषं गलोदयम् । चेरिकायास्तु विस्तारं चतुष्पश्चषइंशके ।। ३ ।। त्रिचतुष्पश्चभागं तु गलव्यासं यथाक्रमम् ।। अर्विध्यघ्रिवेशं स्यात्तद्वयं गलवेशनम् ॥ ४॥ प्रिपादं वा तदर्ध वा वेद्य(ध्य) लवेशनम् । एवं स्वनकभेदेषु कर्तुरिच्छावशानयेत् ॥ ५ ॥ वेदानं नागरे कण्ठं वस्वभं द्राविड़े गलम् । वृत्तं तु वेसरे हम्र्ये गलमानकुलं नयेत् ॥ ६॥ दिशि भद्रसमायुक्तं नासिकानकुलाधिकम् । भानुदयंशे गलोत्सेधैः कलांशं तु गलोदयम् ॥ ७ ॥ उत्तरोच्चं गुणांशं तु वाजनं गलभागया । आदंश बहुभिर्मानं व्योमाशं वाजनोदयम् ॥ ८ ॥ उत्तरार्धगलानीव्र वाजनादीनि पूर्ववत् । अथवा भानुभागे तु गलोद यमुदाहृतम् ॥ ९॥ उत्तरोच्चं गुणाशं तु शिवांशं वाजनोदयम् । तदर्धे मुष्टिबन्धांश्च मध्यध्यांशमुदाहृतम् ॥ १० ॥