________________
काश्यपशिल्प एकोनविंशः पटलः ।
अथाष्टादश: पटल: ।
४१
कम्पद्वारलक्षणम् ।
अथ वक्ष्ये विशेषेण कम्पद्वारविधिं परम् । प्रासादमण्डपादीनां चतुर्दिक्षु विदिक्षु वा ॥ १ ॥ तयोर्मध्यान्तराले वा व्योमामीं तु यत्र 育 1 तत्रैव कल्पयेत्सम्यक्कम्पद्वारं द्विजोत्तम || २ | वस्त्रद्वीतकृतं पत्तिव्यासयुक्तं विशालकम् । स्थलादुत्तरसीमान्तं कम्पद्वारोदयं भवेत् ॥ ३ ॥
च पतङ्गं च योगं प्रागुत्त (क्तकं ) घनम् । कृत्वा दृढीकृतं बद्ध्वा योजयेदन्तरा पुरा ॥ ४ ॥ योगासनं दीर्घ (र्घमा ) यामाङ्घ्रिस्त (ङ्घ्रि तथा कुरु । मूलाग्र योजिकोपेतं तरङ्गाङ्घ्रि प्रकल्पयेत् ॥ ५ ॥ भुव च पतङ्ग च छिद्रे युञ्जाढीकृतम् । चतुष्पदसंख्यं वा दश द्वादश एव वा ॥ ६ ॥ मनुषोडशसंख्या वा कल्प वेदन्तराङ्घ्रिया । अन्तरान्तरा प्रत्यग्गमागमाक्षमं विना ॥ ७ ॥ अन्तराङ्घीन्मयुञ्जीयात्स्थापयेद्दारयोगवत् । योजयेत्तु कवाटादियोमा (व्योमे) प्रत्येकमेव तु ॥ ८ ॥ कवादे द्विव्योमग्रासत्रिव्योमग्रास एव वा । कल्पयेत्सुदृढं द्वारं त्वचलं हस्तिनाऽपि वा ॥ ९ ॥ कम्पद्वारं समाख्यातं प्रस्तरं तु ततः शृणु ॥ १० ॥ इति काश्यपशिल्पे कम्पद्वारलक्षणमष्टादशः पदलः ।
अथैकोनविंशः पटलः |
पस्तरलेक्षणम् ।
अथ वक्ष्ये विशेषेण मस्तरस्य तु लक्षणम् । स्तम्भार्थममानं तु आर्तो (अर्धो) त्सेधाशमेव वा ॥ १ ॥