________________
काश्यपशिल्पेऽष्टाशीतितमः पटलः ।
विजयादिग्रहाणां तु अङ्गयुक्त्या त्वनेन वै । विस्तारसदृशं तुङ्ग मेकभूमौ विधीयते ॥ ११६ ॥ तस्माद्विभज्यदीर्घ तु रोहितोन्नतम् । त्रितलस्थं तु भागं तु पञ्चभूमौ रसांशकम् ।। ११७ ॥ अष्टभागांशकं व्यासात्पञ्चभूमोदयं भवेत् ।
दशांशे नवभूमौ च मन्वंशं सप्तभूमिके ॥ ११८ ॥ सप्तभूमोपरिष्टात्तु मर्त्यानामालयं नहि । एकादी च भूमौ वा शूद्राणां तु विधीयते ॥ ११९ ॥ वैश्यानां पञ्चभूम्यन्तं चतुर्भूम्यन्तमेव वा । भूपानां च सुराणां च सप्तभ्यूम्यन्तरं परम् ॥ १२० ॥ एकभूमोदयं चाष्टभागोचं तु धरातलम् । द्विभागं चरणोचं तु प्रस्तरोच्चं शिवांशकम् ॥ १२१ ॥ साशं तु गलोत्सेधं शिखरोचं द्विभागया । आशं तु शिखामानं क्रमेणैव तु योजयेत् ॥ १२२ ॥ शिखाविमानं चरणे प्रस्तरे शिखरे तु वा । गलवर्गे तु वा योज्यं त्रिष्वङ्गेषु समं तु वा ॥ १२३ ॥ रुद्रांशे द्वितलोचं तु व्योमांशं तु धरातलम् । पक्षांक्षं चरणायामं शेषं पूर्ववदाचरेत् ॥ १२४ ॥ म-वंशे त्रितलोच्चं तु अधिष्ठानं शिवांशकम् । अक्षांशमङ्घ्रितुङ्गं तु शेषं पूर्ववदाचरेत् ॥ १२५ ॥ सप्ताधिकं शिवांशं तु चतुर्भूमोदये कृते । पक्षजन्यंशके स्तम्भतलं शेषं तु पूर्ववत् ।। १२६ ॥ पञ्चभूमौ तु विंशांशे शिवांशं तलमानकम् | अश्विन्यंशं तु पादोचं शेषं प्रागिव कल्पयेत् ॥ १२७ ॥ त्रयोविंशांशके त्वंशतलं पादन्तु तद्वयम् । शेषं पूर्ववदुद्दिष्टं सप्तभूमोदयं ततः ।। १२८ ।। वंशांशे विपक्षiशे धरायां चरणं क्रमात् । सप्तभूमं समाख्यातं अथवा विस्तमानसः ॥ १२९ ॥ सप्तहस्तं तु स्तूप्युच्चं तद्वयं शिखरोदयम् । द्विहस्ताङ्गुलमानं च मचं स्थूपिसमं भवेत् ॥ १३० ॥
....
२७१