________________
काश्यपशिल्पेऽष्टाशीतितमः पटलः । षोडशांशे गृहायामे विस्तरे वसुभागके । द्विभागं गृहविस्तारं कलांशं चाङ्कणं भवेत् ।। १०१ ॥ अकणाकृतवारं तु शून्यांशेन प्रकल्पयेत् । पुरे पुरेऽग्रहारे तु शिवांशं चाङ्कणं भवेत् ॥ १०२ ॥ इतराध्वग्रहाणां तु वाह्यं वासवकारकम् । नराशे विस्तृतायामे युगांशं त्वङ्कणं भवेत् ॥ १०३ ॥ परितोऽलिन्द्रमेकांशं द्विभाग ग्रहविस्तृतम् । बाह्येऽलिन्द्र शिवांशेन चतुर्दिग्भद्रसंयुतम् ॥ १०४ ॥ चतुर्विभक्तिविस्तारं नीवस्य भद्रमस्तकम् ।। मुखभद्रं कणं लिप्य सोपानं भद्रपार्श्वयोः ॥ १०५॥ पुरतो भद्रपोपेतं मण्डषोपेतविनतः।। सर्वेषामपि सामान्यं मध्यभद्रं च मण्डपम् ॥ १०६ ।। मन्वंशे तु तदायामे त्वंशं त्वंचाङ्कणं भवेत् । शेषं पूर्ववदुधिष्टं षोडशान्ते तदायते ॥ १०७ ॥ चकमाणं द्विभागेन कल्यंशे तु प्रागिवा । अषड्भागे तदायामे प्रमुखे धारकद्वयम् ॥ १०८ ॥ शेषं पूर्ववद्दिष्टमेकानेकतलान्वितम् । भानुभागे च मन्वंशे कलांशेऽष्टादशांशके ॥ १०९ ॥ विशं द्वाविंशदंशे च गृहव्यासविभाजिते । जात्याद्या भासप यता यामेष्वष्टसु यामनम् ।। ११० ॥ बाह्य ब्रह्मकणादीनि परितः क(प)रिकल्पयेत् । एकं वा द्वित्रिभागं वा बाह्यवारं प्रकल्पयेत् ॥ १११ ॥ गहव्यासं द्विभागेन तथा च चकणावृतम् । शेषांशमकणं ख्यातं छिदिदं वांबुपाननम् ॥ ११२ ॥ इष्टदीर्घहरङ्गं च कल्प्यं कुड्यं तथा भवेत् । एकानेकतलं वाऽथ प्रासादवदलंकृतम् ।। ११३ ॥ उत्तरं वाजनं साब्जक्षेपणं क्षुद्रवाजनम् । इष्टकाच्छादनं चैव कल्पास्तरणं तथा ॥११४ ॥ मृतगुल्मासकल्कं च प्रस्तरे सकलं प्रति । शङ्कावन्तं तु सोपानं कोरध्वजमेव वा ॥ ११५ ॥