________________
[१०]
दुष्करः । स्वविषये यद्यदुपलब्धं तत्सर्वमेकत्र संगृह्य लिख्यते कर्मसौकर्यार्थम् । कालान्तरेण पुनर्लेखनप्रसङ्गे तत्सर्वं तस्मिन्ग्रन्थे समाविष्टं भविष्यति । एवं बहुशोऽनेकमतमतान्तराणां संग्रह एकस्मिन्प्रन्थे लभ्यते । क्वचित्स्थले जीर्णो मूलमन्थः पुनलिखिता द्वितीयावृत्तिः : सद्यो लिखिता तृतीयावृत्तिरपि वा अन्यस्माद्रन्थादुघृतं पत्रस्यैकपाधैं लिखितं तद्वितीयलेखने ग्रन्थे समाविष्टं, तृतीयलेखने त्वन्यदपि नूतनं मिश्रितं दृष्टम् । इतरेषामपि ग्रन्थानामेवं म्याद्वा न वा । इति कालस्थलनिर्णये दुस्तरापत्तिः । ।
आनन्दाश्रमसंस्थायाश्चालकानामाश्रयमन्तरेणायं ग्रन्थो मुद्रितुं दुष्करः । मुद्रणं तु केवलं द्रव्यसाध्यम् । श्रीसरस्वत्योः संयोगो दुर्लभः । भगवतो महेश्वरस्य कृपाप्रसादादयमाश्रयो लब्ध इति । अन्येऽपि शिल्पग्रन्था एवमेव मुद्रिताः सन्तु भारतवासीयानां शिल्परचनाकौशलं प्रकटी कुर्वन्तु इति प्रार्थये ।
- नाशीक माघ व ॥ १४ गुरुवासरे
वझेकुलोत्पनो विनायकसूनुः
कृष्णशर्मा शिल्पकलानिधिः । शालिवाहन शकाद्धाः १८४७