________________
[९] तस्मात्तत्तद्देशयोग्या शिल्परचनाऽपि भिन्ना भवितुमर्हति । परिस्थितिभिन्नत्वानुसारेण भारतीयसंस्कृतेः सर्वेषां भागानामष्टादशधा विभागः ।
संहितीकरणादनन्तरं शिल्पविषये ये ग्रन्था जातास्ते शिल्पस्य पुराणग्रन्थाः । तेषां मुख्यानां नामान्यधो लिखितानि सन्ति ।
१ विस्ताद्वस्यैकादशे शतके भोजनृपतेः संनिधौ वसता समरङ्गणनाम्ना सूत्रधारेण रचितः ' समरङ्गणसूत्रधारः ।
२ विस्ताद्वस्य द्वादशे शतके पैठणस्थितेन सुखानन्दयतिवर्येण विरचितो ' वास्तुशास्त्र ' नामा ग्रन्थः । - ३ खिस्तास्य द्वादशे शतके कोऽपि · सूत्रधारः' शिल्पदीपकनामानं ग्रन्थं लिखितवान् ।
४ खिस्ताहस्य पञ्चदशे शतके मेवाडदेशे कुम्भे राज्यं शासितार मण्डनाख्यः सूत्रधारः । राजवल्लभ, प्रासादमण्डन, वास्तुमण्डन, रूपमण्डन, कोदण्डमण्डनादीन्ग्रन्थान्यथितवान् ।
५ खिस्ताहस्व षोडशे शतके · कुमार ' नामकेन शिल्पज्ञेन शिल्परत्नाख्यो ग्रन्थ : कृतः ।
६ अन्येऽपि बहवश्चतःशतसंख्यादेशीया ग्रन्था अस्मिन्विषये लिखिता ज्ञायन्ते । इमे ग्रन्थाः शिल्पि, सूत्रधार, गजधर स्थपतिनामधारणां कर्मकाराणां समीपे सर्वत्र विकीर्णा लम्यन्ते । कर्मकाराणां गीर्वाणभाषानैपुण्याभावात्पठनपाठनपरम्पगलोपाच विद्यमानेषु शिल्पग्रन्थेषु बहवोऽशुद्धप्रचारा दृश्यन्ते । पद्यरचनानियमवन्धनादपि केचिहोषा जाताः । केचित्तु पुनर्लेखकप्रमादादपि संभवन्ति ।
अयं कश्यपसंहिताग्रन्थो नन्दभूपतीनां कालादनन्तरं जातो दृश्यते नन्दशब्दस्य नववाचकप्रयोगेण ! भृगुसंहितायां नन्दानामुल्लेखो नास्ति तथाऽपि तस्यां भगवतः कश्य. पस्य सन्मानपुरःसरेणोल्लेखेन भृगुसंहिता कश्यपादनन्तरं जातेति मे मतिः । भगवतः कश्यपस्य शिल्पप्रभावेणेयं वसुधा ' काश्यपी' इति स्मर्यते । कश्यपस्य श्रुतिप्वपि शिल्पज्ञ इति ख्यातिः । तस्मात्कश्यपः प्राचीनतमः शिल्पज्ञ इति तर्कयामि ।
कश्यपसंहिताया ग्रन्थो मद्राससंस्कृतपुस्तकालये लभ्यते । गुर्जर, सौराष्ट्र, मालवदे. शेष्वपि कर्मकाराणां समीपेऽस्य खण्डा लब्धाः । अस्मिन्मुद्रणे तेषां सर्वेषामुपयोगः कृतः । तस्मात्वचिद्विक्तिरपि संजाता। भारतवासीयानां ग्रन्थानां कालस्थलनिर्णयो