________________
काश्यपशिल्पे त्रिचत्वारिंशः पटलः ।
प्रासादस्य विशालार्थ ( ) गुणभागैंग (क)मेव वा । चतुर्भागेकभागं वा अन्तर्मण्डलविस्तृतम् ॥ २ ॥ अन्तहरिविशालं तु सद्भाह्ये द्विगुणं हि तत् । मध्यहारविशालास्तु (लं तु) बाह्यान्तं मण्डलत्रयम् ॥ ३ ॥ मध्यादेस्तु विशालं च बाह्ये त्वादिचतुर्गुणम् । महामर्यादिविस्तार आत्रैः पञ्चगुणो भवेत् ॥ ४ ॥ प्रासादचरणादिम दोवा ( होमा) द्वा मथमस्य तु । प्रथमाद्वितीयनीनं तु द्वितीया तृतीयनीकम् ॥ ५ ॥ तृतीयचतुर्थ निष्क्रान्तं तस्मान्नीव्रं च पञ्चमम् ।
प्राकारं प्रतिनिष्क्रान्तं तरमान्नत्रिं तु पञ्चमम् (तन्नीत्रं कुड्यसीमकम् ) ॥ ६ ॥
वुड्यमध्यमा (ध्यावसानं वा कुडचबाह्यं तथापि वा । अथवा शेषविप्राणां नीत्रं होमाद्विधीयते ॥ ७ ॥ प्रथमं प्रकृतेस्तुल्यं तस्माद्गुणाङ्गुलं नतम् | द्वितीयाचं तु पञ्चान्तं तद्वदेव नतं क्रमात् ॥ ८ ॥ कल्पवं (लप्यं वै ) हर्म्यमानेन हस्तमानमथोच्यते । त्रिपञ्चसप्तहस्तेन प्रथमं त्रिविधं भवेत् ॥ ९ ॥ नर्वेकादशहस्तं च त्रयोदशं द्वितीयकम् । त्रिपञ्चसप्तदशहस्तं मै (तथै ) कोनविंशतिः ॥ १० ॥ मध्यहारं त्रिधा प्रोक्तं मर्यादास्तु ततः शृणु । एकविंशत्रयोविंशपञ्चत्रिंशकरं भवेत् ।। ११ ।। सप्तविंश नवविंशमेकत्रिंशत्करेण तु । महामर्यादिविस्तार एवं त्रित्रियमुच्यते ।। १२ ॥ एवमाभासहर्म्याणां विकल्पानां च कल्पयेत् । सप्तहस्तं समारभ्य पञ्चत्रिंशावसानकम् || १३ ॥ प्रत्येकं प्रथमादीनां सालानां त्रित्रिमानकम् । त्रिपञ्चसंख्यया प्रोक्तं हर्म्याणां चन्द्रसंख्यया ॥ १४ ॥ नवहस्तं समारम्य हस्तत्रिंशावसानकम् | मात्रै सालसमाख्या तु हर्म्याणां जातिसंज्ञका ॥ १५ ॥ प्रागुक्तहर्म्यमानैश्च शालायन्त्यं च संमतम् । पञ्चमाकारमेव हि विमाकारमयोच्यते ॥ १६ ॥
१११