________________
११०.
काश्यपशिल्पे त्रिचत्वारिंशः पटलः ।
✓
सुषे स्थाने मया (त्वायमा बित्य मागनं रख (स्व) [भसात्मकम् । सुषे नैर्ऋत्यपाश्रित्य सौम्याग्रं सलिलात्मकम् ॥ ४१ ॥ सुपे (वायव्यमाश्रित्य प्रागग्रं महतात्मकम् । एवं क्रमान्न्यसेद (इमा ) तू सुनिच्छिद्रं समाचरेत् ॥ ४२ ॥ माणिक्यमरतक (र्कतं चैव वैडूर्य विन्द्रनीलकम् । मौक्तिकं स्फटिकं चैत्र पद्मरागं प्रवालकम् ॥ ४३ ॥ वज्रं मध्ये दिषु (शि) स्थाप्यं शक्तिबीजमनुस्मरन् । तदूर्चे स्थापयेत्स्तूपिदण्डमीशानमन्त्रतः ॥ ४४ ॥ कलशस्योदकैः मोक्ष्य दण्डं चाश्म ( पाषाण) पञ्चकम् | तत्तन्मूर्तीः समभ्यर्च्य गन्यैः पुष्पैश्च धूपकैः ॥ ४५ ॥ गलाम्भसा च सुदृढं स्थापयेद्वास्तुनिञ्चलम् । ततोऽवशेषशिखरं कर्तव्यं स्यो (चो) दिता तथा ॥ ४६ ॥ शिखरोपरिष्टाच्च स्तूपं प्रागुक्तविधिना कुरु । करालादींस्ततः कुर्यान्निश्चलं सुदृढं यथा ॥ ४७ ॥ स्वर्णैर्वा रजतैर्वाऽथ ताम्रैर्वादम् ।
काञ्च (गां च) तलकृतार्थे च मा ( आ ) चार्याय प्रदापयेत् ॥ ४८ ॥ दक्षिणां दापयेत्तस्मै दर्शनिष्कं हिरण्मयम् | यागोपकरणं सर्वमाचार्याय च दापयेत् ॥ ४९ ॥ शिल्पिनो भो (नः पू) जयेत्पश्चाद् गोभूमिकाश्चनादिभिः । एवं यः कुरुते मर्त्यः सोऽयाग्निं (सयाति) शुभदं फलम् ॥ ५०॥ शेत श्रीकाश्यपशिल्पे मूर्वेष्टकाविधानं द्विचत्वारिंश: पटलः ।
अथ त्रिचत्वारिंशः पटलः ।
प्राकारः ।
अथ वक्ष्ये विशेषेण प्राकाराणां च लक्षणम् । रक्षार्थं शोभनार्थं च शालास्तु (या:) मदनस्य च ॥ १ ॥