________________
काश्यपशिल्प एकचत्वारिंशः पटलः।
पादं प्रत्यल्पनासाढयं ब्रह्मकान मुदाहृतम् । तदेव सोन्नतं मञ्च सौष्टिकोन्नतकोष्ठक.म् ॥ ५९ ॥ सारस्वतमिदं ख्यातं शिनप्रियकरं गृहम् । तदेव नतकूटं च कोष्ठेन्नितसमश्चकम् ॥ ६० ॥ प्रादेशमिति विख्यातं सर्वेषु(स)मृद्धिकारणम् । तदेव शिखरं कण्ठं वस्वश्र परिकल्पयेत् ॥ ६१ ।। शिखरे ष्टी(ष्ट)महानासीयुक्तं तच्छोकरं भवेत् । तदेव मध्यभद्राढयं कूटकोप्टौ समोन्नती ॥ ६२ ।। समञ्चो वाऽध्यमञ्चो वा कूटशालो द्विजोत्तम । पार्वतीकमिदं ख्यानं मम प्रीतिकरं भवेत् ॥ ६३ ॥ तदेव शिखरं कण्ठं वृत्तमष्टाश्रवेदिकम् ।। वदिकाश्चैव वृत्ता वा वृत्ताकारघटाऽपि वा ।। ६४ ।। सुशांभवमिदं ख्यानं शंकरस्प प्रियावहम् । पञ्जरं कूटकाष्ठं च शिखरं च घटं तथा ।। ६५ ।। एवमादीनि सवाणि नागराग्रुचितं कुरु । अनेनैवाथवा कुर्यादेकानेक(कादि)भूमया(यः) ।। ६६ ॥ यत्नल(न्त्रस्त)म्भेष कर्तव्यं तलं तस्मादि(द)पञ्चकम् । तत्तल स्योचित व्यासं तुङ्गकुडयं च गर्भकम् ।। ६७ ।। कर्तव्यं विधिना तेन गण्डा(घण्टा)लंकारसंयुतम् । सालिन्द्रं सदनार्थं तु सोपानं रोहणाय वै ॥ ६८ ॥ तत्र तत्रोचितं कुर्याच्छालाभिष्वेकताद्रुमे । तस्याग्रे मण्डपं कुर्यादेकानेकतलं तु वा ॥ ६९ ।। प्रायु(गु)क्तविधिना कुर्यात्सर्वालंकारसंयुतम् । करालमुद्भिद्गुल्मासकल्पचित्तक(चैश्चित्ताकप)णकर्मकृत् ।। ७०।। नानाचित्रेषिचित्रं तु कर्तव्यं विधिचोदितम् । एवं यः कुरुते हयं स्वशक्त्या प्रोक्तयं तु(वत्त)वा ।। ७१ ।। इहव धनवा श्रीमानपुत्रपौत्रकलत्रकैः । दासीदामादिभिश्चान्य: स्वेच्छाव शो मुदाऽरिवह ॥ २ ॥