________________
काश्यपशिल्प एकचत्वारिंशः पटलः ।
कर्णकूटं तु व्योमांशं मध्ये शाला द्विभागया । हारान्तरं तु शश्यंशं युपञ्जरसंयुतम् ॥ ४४ ॥ अशेषोर्ध्वतलव्यासो वेदभागविभाजिते । द्विभागविस्तृतं दण्डमानं नीव्रं तु मध्यमे ॥ ४५ ॥ कृत्वा प्रासादतुङ्गं तु द्विभागेन शतद्वयम् । घरातलं तु सप्तांशं चरणं च त्रयोदश ॥ ४६ ॥ सार्धपञ्च तु मञ्चचं पादोचं भानुसंख्यया । प्रस्तरोचं तु पड्भागं रुद्रांशं चरणोदयम् ॥ ४७ ॥ सार्धभूतांचं स्याद्दशांशं चरणोदयम् । भूतांशं मञ्चमानं तु नवांश चरणोदयम् ॥ ४८ ॥ सार्ववेदांशमञ्चचं कल्पयेत्कल्पवित्तमः । पादोच्चं सार्थवस्वंशं मञ्चमानं युगांशकम् || ४९ ॥ वस्त्रंशं चरणांच्चं तु मस्व (च) मानोदितं युत ( ग ) पू । चरणं सार्थसप्तांशं प्रस्तरं सार्धवन्ति ( ह्निकम् ॥ ५० ॥ सप्तग्रिपाददीर्घ तु पादाधिक्यानिमञ्चकम् | अर्धाधिकं पशं तु पादोच्चाग्निस्तु मञ्चकम् ॥ ५१ ॥ पदेशं पादमानं तु पादोनाग्न्यशमञ्चकम् | अर्धाधिकं तु भूतांशं पाददैर्घ्यमुदाहृतम् || ५२ || अर्वाधिकं द्विभागं तु प्रस्तरस्योदयं भवेत् ।
पादपञ्चभागं तु पाददीर्घमुदाहृतम् ॥ ५३ ॥ सार्घपक्षांशमञ्चाच्चं भूतांशं चरणायतम् । संपादपक्षभागं तु मञ्चमानमुदीरितम् ॥ ५४ ॥ पादोनपञ्चभागं तु चरणोदयमीरितम् । पञ्चमागं द्विभागं स्यात्सार्धवेदांशमङ्घ्रिकम् ॥ ५५ ॥
सत्रिमानशिवांशं तु प्रस्तरस्य समुच्छ्रयम् ।
शम्यं (i) शं वेदिकामानं कण्ठोच्चं तद्विभागया ।। ५६ ।। अधिक युगांशं तु शिखरोदयमीरितम् ।
सपादांशं शिखामानं कल्पयेत्तु क्रमेण च ॥ ५७ ॥ होमादि स्तूपपर्यन्तं युगाश्रं परिकल्पयेत् । शिखरे तु चतुर्दिक्षु महानासीसमन्वितम् ॥ ५८ ॥
१०५