________________
काश्यपशिल्पे पञ्चत्रिंशः पटलः । श्रीकान्तमिति विख्यातं कूटकोष्ठसमं तु वा । समं च नतकूटं स्याच्छीप्रियं तदुदाहृतम् ॥ २४ ॥ तदेव वृत्तशिखरं स्तूर्षि चैव गलं तथा । रुद्रकान्तमिति ख्यातं रुद्रनीतिकरं परम् ।। २५ ॥ तदेव कर्णकूटं तु वेदाश्राष्टाश्रमण्डलम् । क्रमेणाऽऽदितलात्कल्प्यं वृत्तभद्रमिदं परम् ।। २६ ।। तदेवोन्नत कूटं च नतशालासमन्वितम् । कूटमस्तकत्तं च सुवि(वृत्तमिति विद्यते ।। २७ ।। सोनतं कूटकाष्ठं च पञ्जरोन्नतमश्चकम् ।। यथेष्टं शिखराकारं कण्ठं स्तूपिघटं तथा ॥ २८ ॥ युगाध शीर्षकोपेतं कण्ठकूटं प्रकल्पयेत् । शिवभद्रमिति ख्यातं शिवप्रीतिकरं परम् ।। २९ ।। तदेव कूटकोठं तु दण्डं वाऽध्यधंदण्डकम् । द्विदण्ड वाऽथ निष्क्रान्त भद्रं वा भद्रपञ्जरम् ॥ ३०॥ नानाधिष्ठानसंयुक्तं नानापादेरलंकृतम् ।। नानाचित्रर्विचित्रं तु शिवसोख्यमुदाहृतम् ।। ३१ ॥ तदेव गर्भगेहं तु वृत्तं वाऽथ युगांशकम् । घृतमेवं हि बाये तु वृत्ताभं सौष्ठिकान्वितम् ।। ३२ ॥ शेषं पूर्ववदिष्टं नानासर्वाङ्गमण्डलम् । पञ्जरं कूटकोष्ठं च अन्तरप्रस्तरं विना ॥ ३३ ॥ यथेष्टं शिखराकारं शिवप्रीतिकरिष्यते ।
एवं सप्ततम(लं) ख्यातं वसुभूमिमथोपरि ॥ ३४ ॥ इति काश्यपशिल्पे सप्तभूमिविधानं नाम चतुस्त्रिंशः पटलः ।
अथ पञ्चत्रिंशः पटलः ।
वमुभूमिः । अथ वक्ष्ये विशेषेण वसुभूमिविधि परम् । मासादमानविधिना संग्राह्यं विस्तृतोदयम् ॥ १॥
१२